This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
विशेषानुमानप्रकरणे)
 
-
 
। यथा च "आद्यो विकार आकाशः सोऽस्ति भात्यपि च
प्रियः । अवकाशस्तस्य रूपं तन्मिथ्या न तु तत्रयम्" (प० द०१३ । ६७) । यथा
 
-
 
च - "कालासम्बन्धित्वम् । यथा- शशविषाणकूर्मरोमबन्ध्यापुत्रादीनां मिथ्यात्वम् ।
इति नैयायिकाः । तुच्छत्वमिति माध्वाः प्राहुः । निरूपाख्यत्वं (निः स्वरूपत्वम्) । इति
बौद्धाः आहुः ।
 
मिथ्याचार:- दाम्भिकः, बाह्यप्रदर्शनकारी । यथा - कर्मेन्द्रियाणि यो विमूढ़ात्मा
रागद्वेषादिभिर्मलिनचित्तः हस्तादीनि संहृत्य इन्द्रियार्थाञ्शब्दादीन्मनसा स्मरन्नास्ते स
मिथ्याचारोऽसदाचारः पापाचार उच्यते (गी० ३।५ भाष्यो०) । यथा च - वाकूपाण्यादीनि
कर्मेन्द्रियाण्यपि संयम्य निगृत्य यो भगवद्ध्यानच्छलेनेन्द्रियार्थान् विषयान् स्मरन्नास्ते
अविशुद्धवत्तया मनस आत्मनि स्थैर्याभावात् स मिथ्याचारः कपटाचारो दाम्भिक
उच्यत इत्यर्थः (तत्रैव श्रीधरी)।
 
मिथ्याज्ञानम् – अतात्त्विकज्ञानम्, बाधज्ञाननिर्वत्यज्ञानम् । यथा अनात्मनि
देहादौ आत्मबुद्धिः । अयमेव अध्यासो भ्रमः ख्यातिरित्याधुच्यते । अयं च भ्रमः ख्यातिर्वा
विभिन्नदार्शनिकमतानुसारमात्मख्यारित्यादिभेदेन चतुर्दशप्रकारको भवति । एतदर्थं
ख्यातिशब्दो द्रष्टव्यः ।
 
-
 
मुक्तः – ब्रह्मभावापन्नः । यथा - एतदज्ञानमज्ञानोपहितं चैतन्यं चेश्वरादिकमेतदा-
धारभूतानुपहितचैतन्यरूपं तुरीयं ब्रह्ममात्रं भवति (वे० सा०) । यथा च - अयं च मुक्तः
द्विविधः जीवन्मुक्तो विदेहमुक्तश्च । तत्र जीवन्मुक्तो नाम- उक्तप्रकारौ सविकल्पक
निर्विकल्पकसमाधी जीवन्मुक्तस्यैव भवतः । तत्र जीवन्मुक्तो नाम आचार्योपदेशश्रुति-
वाक्यस्वानुभवैः स्वस्वरूपाखण्डब्रह्मज्ञाने जाते आत्मगताखिलाज्ञाननिवृत्तिद्वारा
स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृते सति अज्ञानतत्कार्याणां सञ्चितकर्मसंशय-
विपर्ययादीनामपि विनाशे विगलिताखिलबन्धनः अविद्यालेशसहितः क्षालितलशुन-
भाण्डवद् अविद्यावासनासहितो वा । ब्रह्मनिष्ठः । अत्र अखिलबन्धरहितो ब्रह्मनिष्ठः
जीवन्मुक्तः इति जीवन्मुक्तस्य लक्षणमन्यत् सर्वबन्धसम्बन्धसाहित्ये हेतुः । यथा च - अथ
जीवन्मुक्तलक्षणमुच्यते । जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा
स्वस्वरूपाखण्डब्रह्मणि साक्षात् कृतेऽज्ञानतत्कार्यसञ्चितकर्मसंशयविपर्ययादीनामपि
बाधितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः ।"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यादि श्रुतेः (वे० सा०) । विदेहमुक्तश्च