This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
६. तथा च लक्षणासम्भव इति चेत्, न, सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सति सद-

सद्विलक्षणत्वम् । ७. सत्त्वासत्त्वाभ्यां विचारासहत्वे सति सदसत्त्वेन विचारासहत्वं वा ।

८. प्रतिपन्नोपाधौ बाध्यत्वं वा । ९. इत्यादिलक्षणे निरवद्यत्वसम्भवात् । न च आद्ये

सतोऽपि सदन्तरविलक्षणत्वात् सिद्धसाधनमिति वाच्यम्, सत्त्वावच्छिन्नभेदस्य सन्नेति

प्रतीतिप्रयोजकस्य सद्वैलक्षण्यपदार्थत्वात् । यथा च अद्वैतसिद्धौ - १४. मिथ्यात्वं

ब्रह्मतुच्छोभयातिरिक्तत्वाव्यापकम्, सकलमिथ्यावृत्तित्त्वात् मिथ्यात्वसमानाधि

करणात्यन्ताभावाप्रतियोगित्वाद्वा दृश्यत्ववत् । १५ दृश्यत्वं परमार्थसदवृत्ति

अभिधेयमात्रवृत्तित्वाच्छुक्तिरूप्यत्ववत् । १६. दृश्यत्वं परमार्थसद्भिन्नत्वव्याप्यम्,

दृश्येतरावृत्तिधर्मत्वात् प्रातिभासिकत्ववत् । १७. उभयसिद्धमसद्विलक्षणं मिथ्यात्वा -

समानाधिकरणधर्मानधिकरणम् अधारत्वाच्छुक्तिरूप्यत्ववत् । १८. प्रतियोग्यवच्छिन्नो

देशः अत्यन्ताभावाश्रयः आधारत्वात्कालवत् । १९. आत्मत्वावच्छिन्नं परमार्थ-

सत्त्वानधिकरणप्रतियोगिकभेदत्वावच्छिन्नरहितं परमार्थसत्त्वसत्त्वात् परमार्थसत्त्वा-

वच्छिन्नवत्, परमार्थसति परमार्थसद्भेदाङ्गीकारवादिमतेऽपि सद्भेदोन परमार्थ-

सत्त्ववन्निष्ठः । किन्तु घटत्वाद्यवच्छिन्ननिष्ठ एव । २०. शुक्तिरूप्यं मिथ्या

प्रपञ्चान्न भिद्यते व्यवहारविषयत्वात् ब्रह्मवत् । साध्यसत्त्वमत्र त्रेधा ।

स्वस्यामिथ्यात्वेनोभयोर्मिथ्यात्वेनोभयोरमिथ्यात्वेन वा । तत्रान्तिमपक्षस्यासम्भवात् पक्षे

साध्यसिद्धिपर्यवसानं मध्यमपक्षेण, दृष्टान्ते तु प्रथमपक्षेणेति विवेकः । २१. विमतं

मिथ्यामोक्षहेतुज्ञानाविषयत्वे सत्यसदन्यत्वात् शुक्तिरूप्यत्ववत् मोक्षहेतुज्ञानविषयत्वम् ।

२२. परमार्थसत्त्वव्यापकम्, परमार्थसत्वसमानाधिकरणत्वात् परमार्थिकत्वेन

श्रुतितात्पर्यविषयत्ववत् । २३. एतत्पयत्यन्ताभावः एतत्तन्तुनिष्ठः एतत्पटानाद्यभावत्वात्

एतत्पटान्योन्याभाववत् । तन्तुनाशजन्यपटनाशस्य कदापि तन्तुवृत्तिता नास्तीति

तत्र व्यभिचारवारणायानादिपदम् । यस्य पटस्याश्रयविभागेन नाशस्तदत्यन्ताभावस्य

पक्षत्वे त्वनादिपदमनादेयमेव । अत्र चैतत्पटप्रतियोगिकात्यन्ताभावत्वावच्छिन्नस्य

पक्षीकरणान्न सम्बन्धान्तरेणात्यन्ताभावमादायांशतः सिद्धसाधनम् । पक्षतावच्छेदकावच्छेदेन

साध्यसिद्धेरुद्देश्यत्वात् । समवायसम्बन्धावच्छिन्नो व्यधिकरणधर्मानवच्छिन्नश्च यः

एतत्पटात्यन्ताभावः स एव वा पक्षः । तन्तुशब्देन च पटोपादानकारणमुक्तम् । तत्र

च प्रागभावस्य सत्त्वान्न तेन व्यभिचारः । कार्यकारणयोरभेदेन सिद्धसाधनादिदूषणानि

प्रागेव तत्त्वप्रदीपिकानुमानोपन्यासे निराकृतानि । ... भेदस्य मिथ्यात्वेऽपि अभेदो न

तात्त्विकः, भावाभावयोरुभयोरपि मिथ्यात्वस्य प्रागेवोपपादितत्वात् (अद्वैतसिद्धौ मिथ्यात्वे
 
.......