This page has not been fully proofread.

शावेदान्तकोशः
 
३५१
 
-
 
माहेश्वराः – महेश्वरसिद्धान्तानुयायिन आगमिकाश्चत्वारः सन्ति - शैवाः,
पाशुपताः, कारुणिकसिद्धान्तिनः, कपालिकाश्च । यथा - माहेश्वरास्तु मन्यन्ते
कार्यकारणयोगविधिदुःखान्ताः पञ्चपदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायो-
पदिष्टाः पशुपतिरीश्वरो निमित्तकारणमिति वर्णयन्ति (ब्र० सू० २ ।२।३७ शा०
भा०) । यथा च - "माहेश्वराश्चत्वारः - शैवाः पाशुपताः कारुणिकसिद्धान्तिनः,
कापालिकाश्चेति । चत्वारोऽप्यमी महेश्वरप्रणीतसिद्धान्तानुयायितया माहेश्वराः"
(तत्रैव भाम०) । एतेषां सिद्धान्तः । यथा - कारणमीश्वरः । कार्यं प्राधानिकं महदादि ।
योगोऽप्योंकारादिध्यानधारणादिः । विधिस्त्रिषवणस्नानादिर्जूढचर्यावसानः । दुःखान्तो
मोक्षः । पशव आत्मनस्तेषां पाशो बन्धनम् । तद्विमोक्षो दुःखान्तः । एष तेषाम-
भिसन्धिः– चेतनस्य खल्वधिष्ठातुः कुम्भकारादेः कुम्भादिकार्ये निमित्तकारणत्वमात्रं
न तूपादानत्वमपि । तस्मादिहापीश्वरोऽधिष्ठाता जगत्कारणानां निमित्तमेव न
तूपादानत्वमप्येकस्याधिष्ठातृत्वाधिष्ठेयत्वविरोधादिति प्राप्तम् (तत्रैव भाम०) । अत्र
पशवो जीवाः । यथा – पश्यनात् पाशनाच्च पशवः । पाशा नाम कार्यकारणाख्याः
कलाः । ताभिः पाशिता बद्धा सन्निरुद्धाः शब्दादिविषयपरवशा भूत्वावतिष्ठन्ते
(कौण्डिन्यभाष्ये) । यथा च - मिथ्याज्ञानमधर्मश्च शक्तिर्हेतुश्च्युतिस्तथा । पशुत्वं मूलं
पञ्चैते तन्त्रे हेयाधिकारतः ॥ (गणकारिका ८) ।
 
-
 
मिथुनीकृत्य - सत्यं ब्रह्म असत्यं च बुद्धीन्द्रियादि इमे उभे मिलित्वा जगद्
इत्युच्यते । यथा - सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादि ते द्वे धर्मिणी मिथुनीकृत्य
युगलीकृत्येत्यर्थः । न च संवृतिपरमार्थसतोः पारमार्थिकं मिथुनमस्तीत्यभूततद्भावार्थ-
स्य च्वेः (ब्र० सू० अध्यासभाष्यभाम० पृ० १७) ।
 
मिथ्यात्वम् – बाधज्ञाननिवर्त्यत्वम् । यथा - 'मिथ्यात्वं च स्वाश्रयत्वेनाभिमतया-
वन्निष्ठात्यन्ताभावप्रतियोगित्वम् । अभिमतपदं वस्तुतः स्वाश्रयाप्रसिद्ध्या असम्भव-
वारणाय । यावत्पदमर्थान्तरवारणाय तदुक्तम्- सर्वेषामेव भावानां स्वाश्रयत्वेन सम्मते ।
प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता । यद्वा अयं पटः एवं तन्तुनिष्ठात्यन्ताभाव-
प्रतियोगी, पटत्वात् पटान्तरवदित्याद्यनुमानं मिथ्यात्वे प्रमाणम् तदुक्तम् (वे० प०२प०) ।
यथा च – १. सदसदविलक्षणत्वम् । २. प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वम् । ३.
ज्ञाननिवर्त्यत्त्वम् । ४. स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं वा । ५. सद्विविक्तत्वम्
(अ० सि०) । सदसद्रूपत्वेऽप्युपपत्तेः । अत एव न सत्त्वराहित्ये सत्यसत्त्वविरहः ।