This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
--
 
मायामात्रम्, मायामात्र
माया एव इदमिति मायामात्रं जगत् सर्वम् । यथा - मायामात्रं तु

कार्येनानभिव्यक्तस्वरूपत्वात्
 
(ब्र० सू० ३ । २ । ३ ) । अत्र शा० भा० मायैव सन्ध्ये

सृष्टिर्न परमार्थगन्धोऽस्ति । सन्ध्ये स्वप्ने इत्यर्थः ।
 
३५०
 

 
मायी - , मायिन्
मायावान्
 
-
 
मायोपाधिक ईश्वरः । जगतः सृष्टिस्थितिसंहारकर्ता ।
 

यथा
 
मायां तु प्रकृतिं विधान् मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु

व्याप्तं सर्वमिदं जगत् ॥ (प० द० ६ । १२३) । यथा च - मायां तु प्रकृतिं विद्यान्मायिनं

तु महेश्वरम् । स मायी सृजतीत्याहुः श्वेताश्वतरशाखिन: (प० द० ४९२ )।
 
-
 
-
 

 
मायिकः - , मायिक
मायोपहित ईश्वरोऽथवा मायानिर्मितः सर्वोऽपि लोकः । यथा -

मायिकोऽयं चिदाभासः श्रुतेरनुभवादपि । इन्द्रजालं जगत्प्रोक्तं तदन्तः पात्ययं यतः

(प० द०७।२१७) । यथा च - इन्द्रो मायाभिः पुरुरूप ईयते ( ऋ० वे० ६।४७।१८) ।
 

 
मायोपहितं चैतन्यम् - , मायोपहित चैतन्य
ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् ।

तदुपाधिभूतमायाया एकत्वात् । इन्द्रो मायाभिः पुरुरूप ईयते इत्यादिश्रुतौ मायाभिरिति

बहुवचनस्य मायागतशक्तिविशेषाभिप्रायतया मायागतसत्त्वरजस्तमोरूपगुणाभिप्राय-

तया वोपपत्तेः । तरत्यविद्यां विततां हृदि यस्मिन् निवेशिते । योगी मायाममेयाय तस्मै

विद्यात्मने नमः । इत्यादिश्रुतिस्मृतिषु एकवचनबलेन लाघवानुगृहीतेन मायाया एकत्वं

निश्चीयते । ततश्च तदुपहितं चैतन्यम् ईश्वरसाक्षि । तच्चानादिस्तदुपाधेर्मायाया

अनादित्वात् (वे० प० १ प०) ।
 
-
 
-
 

 
मार्गद्वयम्, मार्गद्वय
श्रेयसे मार्गद्वयम् - प्रवृत्तिमार्गो निवृत्तिमार्गश्च। प्रवृत्तिमार्गः

कर्मकाण्डादिरूपो निवृत्तिमार्गः संन्यासरूपः । यथा- "इमौ द्वावेव पन्थानावनु

निष्क्रान्ततरौ भवतः क्रियायाः पथश्चैवं पुरस्तात् संन्यासेनोत्तरेण निवृत्तिमार्गेणैषणा-

त्रयस्य त्यागः ।" तैत्तरीयके - "द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्ति-

लक्षणो धर्मो निवृत्तिश्च विभावित इत्यादि..... ( ई० उ० २ शा० भा० ) ।
 

 
मार्तण्ड:, मार्तण्ड
भगवान् सूर्यः । यथा आदित्यस्य ब्रह्माण्डोदरजातहिरण्यगर्भ-
......
 

रूपत्वमसदेवेदमग्र आसीत्तत्सदासीत्तत् समभवत्तदाण्डं निरवर्ततेत्यादिच्छन्दो-

गोपनिषद् - वचनजातेन मृते द्विधाभवनादार्ते ब्रह्माण्डे जातो मार्तण्ड इत्यादितद्-

वाचिनो मार्तण्डशब्दस्य पौराणिकव्युत्पादनेन "विद्यासहायो भगवान् यस्यासौ

मण्डलान्तरे । हिरण्यगर्भः पुत्रोऽसावीश्वरो दृश्यते परः" । इत्यादिपुराणवचनेनावगतम्

(ब्र० सू० १।२।१६ क० त० प०) ।