This page has been fully proofread once and needs a second look.

प्रावृताः तम आसीत् "मायां तु प्रकृतिं विद्यात्" "अजामेकां लोहितशुक्लकृष्णाम्"
अविद्यायामन्तरे वर्तमानाः 'भूयश्चान्ते विश्वमायानिवृत्ति' रित्याद्याः श्रुतयो वर्णिता
अज्ञाने प्रमाणमिति स्थितम् । इत्यद्वैतसिद्धावविद्याप्रतिपादक श्रुत्युपपत्तिः (अ० सि० पृ०
५१-५७)।१.(दोषः) परवञ्चनेच्छा (गौ० बृ०४।१।३) । यथा मायावादतमोव्याप्तं
जगत् इत्यादौ त्वद्वयाख्या सिंहनादे सपदि ददृशिरे मायिगोमायवस्ते (वायुस्तुतौ) इत्यादौ
च माया ।२. भगवदिच्छा (भाग० ११।२।३७ विज० टी०) । यथा यन्माययातो बुध
आभजेत्तम् (भाग ११।२।३७) (ब्र० सू० मध्व० भा० १ ।४।२५) । इत्यादौ । यथा
वा - मम माया दुरत्यया (गी० ७।१४) इत्यादौ । तदुक्तं मायेत्युक्ता प्रकृष्टत्वाप्रकृष्टे
हि मायाभिधा (सर्व० सं० पृ० १४१ पूर्ण०) इति मध्वमतानुयायिनः प्राहुः ।
३. भगवच्छक्तिविशेषः इति वल्लभीया मन्यन्ते । ४. मायाशब्दो विचित्रार्थसर्गकर-
त्रिगुणात्मकप्रकृत्यभिधायको नानिर्वचनीयाज्ञानवचनः इति रामानुजीयाः (सर्व० सं०
पृ० १०० रामा०) । ५. मायावादिवेदान्तिनस्तु मिथ्याबुद्धिहेतुभूतमज्ञानं माया । तच्चा-
ज्ञानमीश्वरोपाधिः । मात्यस्यां शक्त्या प्रलये सर्वं जगत् सृष्टौ व्यक्तिमायातीति माया
(सर्व० सं० पृ० १८९ शैव० ) । इति वदन्ति । ६. आदिमाया आदिशक्तिः चण्डी
इत्याद्यपरनाम्नी कालिका इति शाक्ता आहुः । ७. कापट्यम् । ८. दम्भः इति काव्यज्ञा
वदन्ति । ८. माया भगवदिच्छा । सैव मानत्राणकर्त्री यस्य तन्मायामात्रम् (सर्व०
द० सं०) (पूर्ण प्र०) (न्यायकोशः) ।
 
अन्यच्च, अन्यच्च
१. परमेश्वरशक्तिः । यथा- इन्द्रो मायाभिः पुरुरूप ईयते (ऋ० वे०
६।४७।१८)। २. बुद्धिवृत्तिः । यथा - अत्र हि मायापदेन बुद्धिवृत्तयोऽभिधीयन्ते ।
चेतश्चित्तं क्रतुर्माया इति चित्ताभिधायकावगमान् माया शब्दस्य । अथवा
परमेश्वरस्येच्छाज्ञानक्रियाशक्तयो मायाशब्दाभिधेयास्तासामपि श्रुत्यादिषु माया
शब्दाभिधानदर्शनात् । ताभिश्च परमेश्वरः प्रत्युपासकं बहुरूपमाविर्भवति । अवतारभेदैर्वा
बहुधा व्यवह्रियते (त० प्र० मि० प्र० न० प्र०) माया एव अविद्या अन्या च इत्यादि
तथा माया एकैव अनेका वेति अविद्याशब्दे द्रष्टव्यम् ।
 
मायामयम, मायामयम
केवलं प्रतीयमानं न तु पारमार्थिकम् । यथा - प्रतीयमानस्य
परमार्थतः कालत्रयेऽपि स्वतः सत्ताहीनत्वमेव मायामात्रत्वमित्यर्थः (सं० शा०
३।२२५ अ० टी०) । यथा च - मायामये सद्विलक्षणकार्यपक्ष इत्यर्थः (तत्रैव
३।२२७ अ० टी०) । यथा च प्रतीयमानस्य परमार्थतः कालत्रयेऽपि स्वतः
सत्ताहीनत्वमेव मायामयत्वमित्यर्थः (तत्रैव ३ । २२५ अ० टी०) ।
 
-