This page has been fully proofread once and needs a second look.

१४८
 
शावेदान्तकोशः
 
शब्दवाच्यतां लभते (वे० प० १ प०) । यथा च - इदमज्ञानं समष्टिव्यष्ट्यभि-

प्रायेणैकमनेकं च व्यवह्नियते । तथा हि यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्व-

व्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभास-

मानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः अजामेकामित्यादिश्रुतेः ।

इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना । एतदुपहितं चैतन्यं सर्वज्ञत्व-

सर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर इति व्यपदिश्यते

सकलाज्ञानावभासकत्वात् । यः सर्वज्ञः स सर्वविदिति श्रुतेः । ईश्वरस्येयं

समष्टिरखिलकारणत्वात् कारणशरीरम् आनन्दप्रचुरत्वात् कोशवदाच्छादकत्वाच्चानन्द-

मयकोशः सर्वोपरमत्वात् सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते

(वे० सा०) ।११. "मायामेतां तरन्ति ते" इति स्मृतेरिति वाच्यम्, ज्ञानहेतुकतरणस्य

निवृत्त्यतिरिक्तस्यासम्भवेन उभयोर्नाशमात्रार्थत्वाद् । न च "तम आसी"दित्यस्य

सत्त्वप्रतिपादकस्य बाधकं विना परमार्थिकसत्त्वपरत्वेन कथमावरणस्यान्तत्त्वमिति

वाच्यम् । नासदासीन्नोसदासी'दित्यनेन पारमार्थिकत्वतुच्छत्वयोर्निषेधेन व्यावहारिक

सत्त्वपरत्त्वात् । न चानेन माया प्रतिपाद्यते; मायाशब्दार्थश्च नाज्ञानम्, मायिनो

ब्रह्मणोऽज्ञानित्वे सर्वज्ञत्वनिरवद्यत्वादिश्रुतिविरोधादिति
 
वाच्यम्। उपाधेः

प्रतिबिम्बपक्षपातित्वेनेश्वरासार्वज्ञ्याधापादनायोगात्, सार्वज्ञ्याद्यैश्वर्यस्य मायानिबन्ध-

नत्वाच्च । न च "मय ज्ञान' इति घात्वर्थानुसारात् माया कथमज्ञानमिति वाच्यम्;

एवमेवैषा माया स्वव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासी-

करोति । माया चाविद्या च स्वयमेव भवतीति श्रुत्या मायाविधयोरैक्यप्रतिपादनान्माया

अज्ञानमेव; घट चेष्टायामिति धातुजस्यापि धटशब्दस्य चेष्टावाचकत्वाभाववदत्रापि

ज्ञानवाचकत्वाभावात् । माया प्रज्ञा वयुनमिति ज्ञानपर्याये निघण्टुकारवचनं च

ज्ञानाकारपरिणामित्वादज्ञानस्योपपन्नम् । वृत्तिज्ञानस्याज्ञानाभिन्नत्वात् । अज्ञानस्यैवा-

निर्वचनीयविचित्रशक्तियोगात् । न विचित्रशक्तिमिति मायाशब्दप्रयोगानुपपत्तिः

क्वचिन्मणिमन्त्रादौ तत्प्रयोगस्तूपचारात् । न च शुक्तिरूप्यादौ मायाशब्दाप्रयोगात् ।

न मृषार्थोऽयमिति वाच्यम् । वज्रादौ पृथिवीत्वादिव्यवहाराभावेऽपि पृथिवीत्ववत्

व्यवहाराभावेऽपि मायात्वानपायात् । ऐन्द्रजालिकादौ बहुशो मायाशब्दप्रयोग-

दर्शनाच्च, मायाया अज्ञानान्यत्वे ज्ञाननिवर्त्यत्वविरोधाच्च । नीहारतमः शब्दावप्य-

स्मिन्मते अज्ञानस्यावारकत्वाधुज्येते नान्यमते । अनृतनीहारादिशब्दानां दुष्कर्मपरत्वे

श्रुत्यन्तरोक्तजीवेशभेदकल्पोपादानत्वादिविरोधाञ्च । तस्मादनृतेन प्रत्यूढ़ाः नीहारेण