2023-03-12 05:01:37 by ambuda-bot
This page has not been fully proofread.
●शावेदान्तकोशः
३४७
दुरत्यया (गी० ७९४ शा० भा०) । "यथा च --मम मायाविनः परमेश्वरस्य
सर्वजगत्कारणस्य सर्वज्ञस्य सर्वशक्तेः स्वभूता स्वाधीनत्वेन जगत्सृष्ट्यादिनिर्वाहिका
तत्त्वप्रतिभासप्रतिबन्धेनातत्त्वप्रतिभासहेतुरावरणविक्षेपशक्तिद्वयवत्यविद्या
सर्वप्रपञ्चप्रकृतिः(तत्रैव म० सू०) । यथा च - "देवस्य ममेश्वरस्य स्वभूता त्रिगुणमयी
त्रिगुणात्मिका माया प्रकृतिः " मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । सा
प्रकृतिर्मायाविद्यारूपेण द्विधा 'माया चाविद्या च स्वयमेव भवति' इति श्रुतेः । तदुक्तं
'तमोरजःसत्त्वगुणा प्रकृतिर्द्विविधा मता । सत्त्वशुद्ध्यविशुद्धिभ्यां मायाविद्ये च ते मते ।
मायाबिम्बो वशीकृत्य तां स्यात् सर्वज्ञ ईश्वरः । अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा ।
इति । तथा च माया प्रकृतिरविद्या मायामयी ईश्वरमधिष्ठानत्वेनाश्रित्य जीवान्मोहयति
(तत्रैव भाष्यो०) । ९. तमोरूपा तुच्छा च । यथा - माया चेयं तमोरूपा तापनीये
तदीरणात् । अनुभूतिं तत्र मानं प्रतिजज्ञे श्रुतिश्च यम् (प० द० ६।१२५) । तुच्छा-
निर्वचनीया च वास्तवी चेत्यसौ त्रिधा । ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः
(तत्रैव ६ । १३० ) । अचिन्त्यरचनाशक्तिर्बीजमायेति निश्चिनु । मायाबीजं तदेवैकं
सुषुप्तावनुभूतये (त० १५१) एकापि माया स्वीयाभिर्बह्वीभिः शक्तिभिरनेका बह्वी
चोच्यते । यथा - इन्द्रो मायाभिः पुरुरूप ईयते ( ऋ० वे० ६।४७।१८) । सर्वोपेता च
तद्दर्शनात् (ब्र० सू० २।१।३०) । इति सूत्रे शा० भा० मायारूपा अनेकशक्तय उक्ताः ।
-
माया
-
यथा – विचित्रशक्तियुक्तं परं ब्रह्मेति । तदुच्यते । सर्वोपता च तद्दर्शनात् । सर्वशक्तियुक्ता
च परदेवतेत्यभ्युपगन्तव्यम् । कुतः तद्दर्शनात् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं
परस्या देवताया :- सर्वकर्मा सर्वकामः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः
(छा० ३।१४।४) । सत्यकामः सत्यसङ्कल्पः (छा० ८/७/१) । यः सर्वज्ञः सर्ववित्
(मुण्ड० १।१ । ९) एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः
(बृ० उ० ३/८/९) । इत्येवं जातीयका (शा० भा०) 1१०. माया तु प्रकृतिं विद्यान्मयिनं
तु महेश्वरम् (श्वे० ४।१०) । अजामेकां लोहितशुक्लकृष्णां बह्वी प्रजास्सृजमानां
सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः (श्वे० ४।५) ।
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते योगी मायाममेयाय तस्मै विद्यात्मने नमः ।
इत्यादिश्रुतिस्मृतिषु एकवचनबलेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते ।
ततश्च तदुपहितं चैतन्यम् ईश्वरसाक्षि तच्चानादि तदुपाधेर्मायाया अनादित्वात् ।
मायावच्छिन्नं चैतन्यं परमेश्वरः, मायाया विशेषणत्वे ईश्वरत्वमुपाधित्वे साक्षित्वमिति
ईश्वरत्वसाक्षित्वयोर्भेदः न तु धर्मिणोरीश्वरस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरः इत्यादि-