2023-03-12 05:01:36 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
1
· इन्द्रो मायाभिः पुरुरूप ईयते (बृ०उ०२/५/१९) । इत्याद्यनेकश्रुतिभिः । मयाऽध्यक्षेण
प्रकृतिः सूयते चराचरम् (भ० गी०) इत्यादिस्मृतिभिश्च मायाविद्याज्ञानादि-
शब्द - वाच्यस्याऽऽत्माश्रयादिविषयस्य जडस्य सदसदभ्यामनिर्वचनीयस्य ब्रह्मणो
जगत्सृष्ट्यादौ द्वारत्वाङ्गीकारादज्ञानमूलकमेव जगत्प्रवृत्तिरिति सिद्धान्तः स्थितः.......
(सं० शा० ३।२६९ अ० टी०) । यथा च "जगदुत्पादनयोरनिर्वचनीयत्वान्माया-
प्रकृतित्वश्रुतेश्चाखिलं मृषेति भाष्यकृतवचनपरित्यागस्तव स्यादित्यर्थः (सं०
शा० ३।९३ सु० टी०) । ६. (क) मायाभासेन जीवेशौ करोतीति श्रुतत्वतः । कल्पितावेव
जीवेशौ ताभ्यां सर्वं प्रकल्पितम् (प० द० ७।३) । (ख) अत्र मायाशब्देन चिदानन्दमय-
ब्रह्मप्रतिविम्बसमन्विता सत्वरजस्तमोगुणात्मिका जगदुपादानभूता प्रकृतिरुच्यते । सा च
सत्वगुणस्य शुद्ध्यविशुद्धिभ्यां द्विधा भिद्यमाना क्रमेण माया चाविद्या च भवति । तयोः
मायाविद्ययोः प्रतिबिम्बितं ब्रह्मचैतन्यमेव ईश्वरो जीवश्चेत्युच्यते । तदिदं तत्त्व-
विवेकाख्ये ग्रन्थे श्रीमविद्यारण्यगुरुभिर्निरूपितम् -- चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता ।
तमोरजःसत्वगुणा प्रकृतिर्द्विविधा च सा । सत्वशुद्ध्यविशुद्धिभ्यां मायाविद्ये च ते मते ।
मायाबिम्बो वशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः । अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा ।
६. सा कारणशरीरं स्यात्प्रांज्ञस्तत्राभिमानवान् । इति इममेवार्थं मनसि निधाय
जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुतिरपि प्रवृत्ता ।
अतो जीवेश्वरयोर्मायाकल्पितत्वं अन्यत्कृत्स्नं जगत्ताभ्यामेव कल्पितम् (प० द०
७।३) । (घ) मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । स मायी सृजतीत्याहुः
श्वेताश्वतरशाखिन: (प० द० ४।२) । ७. अनृतत्वम् - यथा - मायोपदेशकाले हि
मायावी मणिमन्त्राद्येव प्रयच्छति न तु काञ्चिच्छक्तिमाधत्ते मानाभावादित्यर्थः ।
परतोऽपि परेणाऽहितेत्यपि (सं० शा० ३।९१ सु० टी०) । यथा च अस्मिन्पक्षे
हि मायाविपुरुषान्तरोपदेशादस्य मायाप्राप्तिर्वक्तव्या । तथा च काञ्चिन्मायावी
पुरुषोऽपि मणिमन्त्रं चौषधं वेतीत्थमीदृशकमन्यद्वा विरहय्य विनाऽन्यच्छ-
क्तिलक्षणमिहास्मिञ्छिष्ये नार्पयति । मणिमन्त्रमिति द्वन्द्वैक्यम् । मायावी पुरुषः
पुरुषान्तरे मण्यादिप्रदानव्यतिरेकेण न शक्तिं काञ्चिदाधत्ते मण्यादिश्च न
शक्तिर्नापि मायाशब्दवाच्यस्तस्य सत्यत्वान्मायाया अनृतत्वेन प्रसिद्धत्वात् (सं० शा०
३।९१ अ० टी०) ।८. त्रिगुणात्मिका । यथा - कथं पुनर्देवीमेतां त्रिगुणात्मिकां वैष्णबीं
मायामतिक्रामन्तीत्युच्यते दैवीति । दैवी देवस्य ममेश्वरस्य विष्णोः स्वभूता हि
यस्मादेषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेनात्ययोऽतिक्रमणं यस्याः सा
-