This page has not been fully proofread.

शावेदान्तकोशः
 
३४५
 
एवमेव उत्तराच्चेदाविर्भूतस्वरूपस्तु (ब्र० सू० १ ।३।१९) इति सूत्रे भगवता.
शङ्करेण अविद्यामाययोः पर्यायत्वेन व्यवहारः कृतः - एक एव परमेश्वरः
कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविदवदनेकधा विभाव्यते । इति ।
पञ्चपादिकाविवरणेऽप्येवमेव । एके आचार्या अनयोर्भेदं मन्वते । एतन्मते माया
शुद्धसत्त्वप्राधाना अविद्या च मलिनसत्त्वप्रधाना । मायाया ईश्वरेण सम्बन्धस्तेन
मायोपाधिक ईश्वरः । अविद्यायाश्च जीवेन सम्बन्धस्तेन अविद्योपाधिको जीवः ।
तत्त्वप्रदीपिकायाम् एकस्या अविद्याया अनेके आकारा उक्ताः- संसारमूलकारणभूता
अविद्या यद्यप्येकैव तथापि तस्याः सन्त्येव बहव आकाराः । तत्रैकः प्रपञ्चस्य
परमार्थसत्यभ्रमहेतुः । द्वितीयो अर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्तु अपरोक्षप्रतिभास-
विषयाकारकल्पकः (त० प्र० ४ प०) ।
 
१ . अज्ञानम् । यथा च – "श्रुतिस्मृतिर्वचोभिरुदीर्यमाणा परमेश्वरस्यैषा माया-
शक्तिरज्ञानमेव भविष्यतीति शेषः (सं० शा० ३।९४ सु० टी०) । यथा च - 'श्रुति-
स्मृतिवचोभिरुदीर्यमाणा या परमेश्वरस्य सर्वप्रपञ्चजननीशक्तिरेषाऽज्ञानमेव
भविष्यतीति योजना (तत्रैव अ० टी०) । यथा च - "अज्ञानस्य स्वकार्यान्तःकरण-
द्वारैव किञ्चिज्ज्ञानसम्पादकत्वं न चेश्वरस्य तदस्तीत्युक्तेन मार्गेणेत्यर्थः । ननु
तर्ह्यज्ञानलक्षणाभावादज्ञानभिन्नैव मायेत्याशङ्क्याह - सर्वज्ञेति । "माया चाविद्या च
स्वयमेव भवति" (नृसिं० ता० उ० ९) इत्यादिश्रुतावज्ञानात्मकमायाया
एवेश्वराश्रयत्वश्रुतेर्भेदप्रमाणाभावस्य चोक्तत्वात् बुद्ध्यादिसहकार्यभावादनावरणत्वं न
त्वज्ञानलक्षणाभावादित्यर्थः (तत्रैव ३।९९ सु० टी०) । २. अविद्या । यथा - न
अज्ञानमात्रं मायोच्यते किन्तु द्रष्टभ्रमहेतुमायाविविषयमज्ञानम् । तं हि मायाविनं
हस्त्यादिहीनमपि हस्त्यादिमन्तमिव मूढाः पश्यन्तीत्यर्थः । वाचस्पतिमते तु जीवाश्रया
ब्रह्मविषया अनन्ताः अविद्याः । तासामाश्रितत्वोपाधिनाऽविद्यात्वं तदवच्छिन्ना जीवाः ।
तासां च मिलितानां विषयित्वोपाधिना मायात्वम् (तत्रैव ३।१०० सु० टी० ) ।
३. आवरणम् अज्ञानम् । यथा- 'सर्वेश्वरेण सर्वसमेन परमाप्तेन हरिणा चैतन्य-
वस्तुनोऽज्ञानमावरणमभ्यधायि - न मां दुष्कृतिनो मूदाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ (भ० गी० ७।१५)। इतीत्थं भगवद्वाक्यं
च प्रतिपद्यमानास्तन्मायाविद्ययोस्तत्वमेकमिति निश्चयतः प्रतीमो वयमिति योजना"
(सं० शा० ३/१०८ सु० टी०) । ४. प्रकृतिः । यथा - "मायां तु प्रकृतिम् (श्वे०
४।१०) । ५. परमात्मशक्तिः यथा देवात्मशक्तिं स्वगुणैर्निरूढाम् (श्वे० १ । ३) ।