2023-03-12 05:01:35 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
मानिट् - मनीषा संयमितमनः (सद्बुद्धिः) । मनसः सङ्कल्पादिरूपस्येष्टे
नियन्तृत्वेनेति मानिट् ....मनीषा विकल्पवर्जितया (का० उ० ६।९ शा० भा० ) । यथा
च - तस्यासङ्गत्वात् परमानन्दस्वभावत्वाच्चेति नियन्तृत्वेन बुद्धिर्मनिडुच्यते (तत्रैव शा०
भा० आ० टी०) ।
-
३४४
माया – मात्यस्यां विश्वमिति माया अघटितघटनापटीयसी । माछाससिभ्यो यः ।
ततष्टाप् । अथवा माकाभ्यामयच् इति । अथवा मा लक्ष्मीः अयः शुभावहो विधिर्यस्याः
सा इति । भगवता शङ्करेण मायायाः कृते इमे शब्दाः प्रयुक्ताः- मिथ्याज्ञानं
मिथ्याप्रत्ययः मिथ्याबुद्धिः (ब्र० सू० १ ।१।४ शा० भा०) अव्यक्तम् (तत्रैव १ । ४ । ३)
महासुषुप्तिः (तत्रैव १ ।४।३) आकाश: (बृ० उ० ३।८।११) अक्षरः (मु० उ०
२।१।२) अध्यासः यथा- तमेतमेवं लक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते
(ब्र० सू० शा० भा० उपो०) माया (तत्रैव २।१।९ शा० भा० ) । पञ्चपादिकायां च
मायायाः कृते चतुर्दशनामानि प्रयुक्तानि - नामरूपम्, अव्याकृतम्, अविद्या, प्रकृतिः
अग्रहणम्, अव्यक्तं तमः कारणं लयः शक्तिः महासुषुप्तिः निद्रा अक्षरम् आकाशम् ।
अस्या मायाया अविद्याया वा मूलं शतपथब्राह्मणे एवमुक्तम्- अथ ब्रह्मैव
परार्द्धमगच्छत् । तत्परार्द्धं गत्वा ऐक्षत कथं त्विमाँल्लोकान् प्रत्यवेयामिति । तद्
द्वाभ्यामेव प्रत्यवैद् रूपेण च नाम्ना च (श० प० ब्रा० १।१।२।३) स्वर्भानोरद्य
यदिन्द्रमाया इत्यादि ऋग्वेदीये ५ ।४०।६ सूक्तमन्त्रे मायाशब्दस्य बहुधा प्रयोगो वर्तते ।
ऋग्वेदीये - नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमापरो यत् । किमावरीवः
कुहकस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् । न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न
आसीत् प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास । तम
आसीत्तमसा गूढमग्रे प्रकेतं सलिलं सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत्तप-
सस्तन्महिम्ना जायतैकम् । कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् - इति
नासदीये १०/१२७ सूक्ते मायास्वरूपमित्थं निरूपितमस्ति । मायाबलादेव- नेह
नानास्ति किञ्चन, एकमेवाद्वितीयमित्यादिश्रुतयः सङ्गच्छन्ते । एषा माया तथा अविद्या
एकैव भिन्ना वेत्यत्र आचार्याणां मतभेदः । श्रुतेस्तु शब्दमूलत्वात् (ब्र० सू०
२।१।२७) इत्यत्र शाङ्करभाष्ये - अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन
व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्मपरिणामादिसर्वव्यवहारा-
स्पदत्वं प्रतिपद्यते । पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते ।
वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयत्वं ब्रह्मणः कुप्यति ।
इति भाष्ये अविद्याकल्पितमेतदुक्तम् । अत्रैव भामत्यामुच्यते अनेन स्फुटितो मायावादः ।