This page has been fully proofread once and needs a second look.

महेश्वरः, महेश्वर
सर्वात्मा, सर्वस्वतन्त्रः शिवश्च । यथा - "सर्वात्मत्वात्स्वतन्त्रत्वाच्च
महानीश्वरश्चेति महेश्वर: (गी० १३/२२ शा० भा० ) । यथा च - उपद्रष्ट-
महेश्वरपरमात्मरूपैस्तु नित्यमुक्त एक एवेति ज्ञेयम् (तत्रैव नी० क०) । यथा च -
महेश्वरः सर्वात्मत्वात्स्वतन्त्रत्वाच्च महानीश्वर चेति महेश्वरः (तत्रैव म० सू०) । यथा
च - महांश्चासावीश्वरश्चेति महेश्वरः (तत्रैव भाष्यो०) । यथा च - महांश्चासावीश्व-
रश्चेति महेश्वरः (तत्रैव श्रीधरी)।
 
मातरिश्वाः, मातरिश्वन्
सर्वस्य जगतो धारयिता वायुश्च । यथा - मातर्यन्तरिक्षे श्वयति
गच्छतीति मातरिश्वा वायुः सर्वप्राणभृक्रियात्मको यदाश्रयाणि कार्यकारणजातानि
यस्मिन्नीतानि प्रोतानि च यत् सूत्रसज्ञकं सर्वस्य जगतो विधारयितृ स मातरिश्वा
(ई० उ० ४ शा० भा० ) ।
 
मात्रास्पर्शः, मात्रास्पर्श
मीयन्तेऽस्माभिरिति मात्राः इन्द्रियाणि । यथा - "आभिर्मीयन्ते
शब्दादय इति श्रोत्रादीनीन्द्रियाणि, मात्राणां स्पर्शाः शब्दादिभिः संयोगास्ते शीतोष्णसुख-
दुःखदाः शीतमुष्णं सुखं दुःखं च प्रयच्छन्तीति । अथवा स्पृश्यन्त इति स्पर्शा विषयाः
शब्दादयः मात्राश्च स्पर्शाश्च शीतोष्णसुखदुःखदा....। (गी० २।१४ शा० भा० ) ।
यथा च - "मीयन्ते आभिर्विषया इति मात्रा इन्द्रियाणि तासां स्पर्शा विषयैः
सम्बन्धास्तत्तद्विषयाकारान्तःकरणपरिणामा वा ते आगमापायिनः..... । (तत्रैव म०
सू०) । यथा च - "मीयन्ते आभिर्विषया इति मात्राः इन्द्रियाणि तेषामिन्द्रियैः स्पर्शाः
संयोगाः । यद्वा स्पृशन्त इति स्पर्शा विषया मात्राश्च स्पर्शाश्च ते शीतोष्णसुखदुःखदा
(तत्रैव भाष्यो०) मीयन्ते ज्ञायन्ते विषया आभिरिति मात्रा इन्द्रियवृत्तयः तासां स्पर्शा:
विषयैः सम्बन्धाः (तत्रैव श्रीधरी) ।
 
मानसी क्रिया, मनस् क्रिया
वस्तुस्वरूपसापेक्षा तथा पुरुषव्यापाराधीना । अतो ज्ञानं
(ब्रह्मज्ञानम्) । न मानसी क्रिया यथा - "ननु ज्ञानं मानसी क्रिया । न, वैलक्षण्यात् ।
क्रिया हि नाम सा, यत्र वस्तुस्वरूपनिरपेक्षेणैव चोद्यते पुरुषव्यापाराधीना च "
(ब्र० सू० १ ।१ ।४ शा० भा० ) । अयमर्थः - सत्यं ज्ञानं मानसी क्रिया, नत्वियं ब्रह्मणि
फलं जनयितुमर्हति; तस्य स्वयंप्रकाशतया विदिक्रियाकर्मभावानुपपत्तेरित्युक्तम्
(तत्रैव भाम०) ।