2023-03-12 05:01:35 by ambuda-bot
This page has not been fully proofread.
३४२
शाङ्करवेदान्तकोशः
-
तत्त्वमसि (छा० उ० ६।८।७) अहं ब्रह्मास्मि (बृ० उ० १ ।४।१०) । इति । यथा -
(
"अथ महावाक्यार्थो वर्ण्यते इदं तत्त्वमसीति वाक्यं सम्बन्धत्रयेणाखण्डार्थबोधकं
भवति । सम्बन्धत्रयं नाम पदयोः समानाधिकरण्यं पदार्थयोर्विशेषणविशेष्यभावः,
प्रत्यगात्मलक्षणयोर्लक्ष्यलक्षणभावश्चेति । तदुक्तम्- सामानाधिकरण्यञ्च विशेषण-
विशेष्यता । लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम् । इति । सामानाधिकरण्य-
सम्बन्धस्तावद्, यथा – 'सोऽयं देवदत्त' इत्यस्मिन् वाक्ये तत्कालविशिष्टदेवदत्तवाचकस-
शब्दस्यैतत्कालविशिष्टदेवदत्तवाचकायंशब्दस्य चैकस्मिन् पिण्डे तात्पर्यसम्बन्धः ।
परोक्षत्वादिविशिष्टचैतन्यवाचकतत्पदस्या-
V
च तत्त्वमसीति वाक्येऽपि
परोक्षत्वादिविशिष्टचैतन्यवाचकत्वम्पदस्य चैकस्मिंश्चैतन्ये तात्पर्यसम्बन्ध: ( वे० सा०
म० वा० प्र०) । यथा च - "इदं महावाक्यमेव वेदः उपनिषवच्च" । यथा - " पुत्र:
श्वेतकेतुः पितुरुद्दालकात् सकाशान्महावाक्यत एवास्य परमात्मनस्तत्त्वं विजज्ञिवानिति
यतो यस्माच्छुतं छान्दोग्ये तेन वेदहेतुत्त्वेन स एव वेदस्तन्महावाक्य-मेव वेदः
पुंल्लिङ्गत्वनिर्देशो विधेयाभिप्रायेण । तथैव वेदवाच्यत्ववत्सैवोपनिषच्च सिद्धा (सं० शा०
३।३०२ अ० टी०) । यथा च - १ . (क) स्वघटकानेकनामलभ्यतादृशार्थ-बोधकं
वाक्यम् । अत्र तादृशार्थंबोधस्तु तत्तदर्थावच्छिन्नविषयताशाली इति बोध्यम् (श०
प्र० श्लो० ३० टी० पृ० ४४) । यथा महावाक्यार्थबुद्धि प्रति खण्डवाक्यार्थज्ञानं
कारणमिति कार्यकारणभावे वक्तव्ये पञ्चावयवोपेतन्यायवाक्यम् । अत्र प्रतिज्ञादिघटित-
पञ्चावयवोपेतमहावाक्यजनितसमुदितार्थविषयकशाब्दबुद्धौ प्रतिज्ञादिरूपावान्तर-
वाक्यार्थज्ञानं कारणमिति कार्यकारणभावो द्रष्टव्यः । अत्रोच्यते भर्तृहरिणा-स्वार्थबोधे
समाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥ (वाक्यपदीये)।
मायावाद्यद्वैतमते तत्त्वमसि ब्रह्माहमस्मि इत्यादीनि द्वादशमहावाक्यानि । साहित्य-
शास्त्रज्ञास्तु वाक्योच्चयो महावाक्यम् । यथा रामायणमहाभारतरघुबंशादि (सा० द०
प० २।७) । इत्याहुः (न्या० को०)।
तथा
-
-
महावाक्यानि - अद्वैतवेदान्ते चत्वारि महावाक्यानि प्रसिद्धानि एतेषां जीवब्रह्मणो-
रैक्यपरोऽर्थः ।१ . प्रज्ञानं ब्रह्म - (ऋ० वे० ऐ० आ० ५३) आम्नायमठः जगन्नाथपुर्याम्
(उत्कले) ।२. अहं ब्रह्मास्मि - (य० वे० बृ० उ० १।४।१०) आम्नायमठः शृङ्गेयम्
(कर्णाटके) तत् त्वमसि - (सा० वे० छा० उ० ६।८। ७) आम्नायमठ: द्वारकायाम्
(सौराष्ट्रे) अयमात्मा ब्रह्म- (अ० वे० मा० उ० २) आम्नायमठः जोशीमठ:
बदरिकाश्रमसमीपे ( उ० प्रदेशे) ज्योतिष्पीठमुच्यते । क्वचिन् महावाक्यानि द्वादश अपि ।