This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
३४१
 
-
 
मायायां च लयः, न तु ब्रह्मणि, बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत

इत्युच्यते । कार्यब्रह्मणो दिवसावसाननिमित्तकस्त्रैलोक्यमात्रप्रलयः नैमित्तिकप्रलयः ।

ब्रह्मणो दिवसश्चतुर्युगसहस्रपरिमितकालः, चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते इति

वचनात् । प्रलयकालो दिवसकालपरिमितः, रात्रिकालस्य दिवसकालतुल्यत्वात् ।

प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि - द्विपरार्द्धे त्वतिक्रान्ते ब्रह्मणः

परमेष्ठिनः । तदा प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि । एष प्राकृतिको राजन् प्रलयो

यत्र लीयते । इति वचनं प्राकृतपलये मानम् । एष नैमित्तिकः प्रोक्तः प्रलयो यत्र

विश्वसृक् । शेतेऽनन्तासने नित्यमात्मसात्कृत्य चाखिलम् ॥ इति वचनं नैमित्तिकप्रलये

मानम् । तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव,

नानाजीववादे तु क्रमेण । 'सर्व एकीभवन्ति' इत्यादिश्रुतेः तत्राधास्त्रयोऽपि प्रलयाः

कर्मोपरतिनिमित्ताः, तुरीयस्तु ज्ञानोदयनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः । एवं

चतुर्विधप्रलयो निरूपितः । तस्येदानीं क्रमो निरूप्यते - भूतानां भौतिकानां च न

कारणलयक्रमेण लयः । कारणलयसमये कार्याणामाश्रयान्तराभावेनावस्थानानुपपत्तेः ।

किन्तु सृष्टिक्रमविपरीतक्रमेण तत्तत्कार्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजकतया

उपादाननाशस्याप्रयोजकत्वात् । अन्यथा न्यायमतेऽपि महाप्रलये पृथिवीपरमाणु-

गतरूपगन्धरसादेरविनाशापत्तेः । तथा च पृथिव्या अप्सु, अपां तेजसि, तेजसो वायौ,

वायोराकाशे आकाशस्य जीवाहारे तस्य हिरण्यगर्भाहारे, तस्य चाविद्यायामित्येवंरूपाः

प्रलयाः । तदुक्तं विष्णुपुराणे - जगप्रतिष्ठा देवर्षे । पृथिव्यप्सु प्रलीयते । तेजस्यापः

प्रलीयन्ते तेजो वायौ प्रलीयते । वायुश्च लीयते व्योग्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं

पुरुषे ब्रह्मन् निष्कले सम्प्रलीयते । एवंविधप्रलयकारणत्वं तत्पदार्थस्य ब्रह्मणस्तटस्थल

क्षणम् (वे० प० ७ प० ) ।
 

(क) चरम संयोगनाश: (ग० सिद्धा०) । (ख) सर्वभावकार्यध्वंसः (त० दी०

१ पृ० १०) । केचित्तु पौराणिकादयः जन्यभावानधिकरणकालः इत्याहुः । तस्योत्पत्ति-

नियमस्तु महान् प्रलयो ब्रह्मणः । स्वमानेन शतवर्षावसाने जायत इति । अत्रेदं बोध्यम् ।

महाप्रलयानन्तरं न सृष्टिः । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्टस्यापायात्। सर्वभोक्त्र-

पवृक्तौ प्रयोजनाभावाच्च । न हि बीजप्रयोजनाभ्यां विना कार्योत्पत्तिः इति (प० भा०)

महाप्रलयो न प्रमाणसिद्धः इति नव्यनैयायिका आहुः (न्यायकोशः) ।
 
-
 

 
महावाक्यम् - , महावाक्य
चतुर्णां वेदानां चत्वारि उत्कृष्टानि ब्रह्मात्यैकबोधकानि वाक्यानि

महावाक्यमुच्यते । तानि – प्रज्ञानं ब्रह्म (ऐ० आ० ५३) । अयमात्मा ब्रह्म (मा० उ० २)