This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
निकटभावमपेक्ष्य तु महावाकोऽप्युपनिषद्गीर्मुख्येत्युक्तमिति न दोष इत्यर्थः
(सं० शा० ३ । ३०० अ० टी०) ।
 
३४०
 
-
 
-
 
महात्मा - १. कल्याणदिगुणाकरः सर्वज्ञः । यथा - "महात्मा परमकारुणिकः
सर्वेश्वरः सर्वज्ञ इत्यादिकल्याणगुणाकरः" (गी० ११ /२० भाष्यो०) । यथा च -
"महात्मा विश्वरूपः दयालुरिति वा " (तत्रैव श्रीधरी ) । २. "महात्मनोऽक्षुद्रस्व-
भावस्य तव निर्दोषलोकपीडनं नोचितमित्याशयेनाह - हे महात्मन्निति" (तत्रैव
भाष्यो०) ।
 
(
 
महान् - महत्तत्त्वं बुद्धिः तदुपाधिको जीवः । यथा - "महानिति बुद्धिरुच्यते
तदुपाधिको जीवः इह महानिति विवक्ष्यते" (सं० शा० ३।२९२ अ० टी० ) ।
महाप्रलय:
:
त्रैलोक्यनाशः । स च चतुर्विधः नित्यः प्राकृतः नैमित्तिकः
आत्यन्तिकश्चेति । यथा - "इदानीं प्रलयो निरूप्यते । प्रलयो नाम त्रैलोक्यनाशः, स च
चतुर्विधः - नित्यः, प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः,
तस्याः सकलकार्यप्रलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणात्मनाऽव-
स्थानम् । तेन सुषुप्तोत्थितस्य न सुखदुःखाद्यनुभवानुपपत्तिः । न वा स्मरणानुपपत्तिः ।
नच सुषुप्तावन्तःकरणस्य विनाशे तदधीनप्राणादिक्रियाऽनुपपत्तिः । वस्तुतः

श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुप्तशरीरोपलम्भवत् । न चैवं
सुप्तस्य परेतादविशेषः। सुप्तस्य हि लिङ्गशरीरं संस्कारात्मनाऽत्रैव वर्तते, परेतस्य तु
लोकान्तर इति वैलक्षण्यात् । यद्वा, अन्तःकरणस्य द्वे शक्ती - ज्ञानशक्तिः क्रियाशक्ति-
श्चेति । तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः, न क्रियाशक्तिविशिष्ट-
स्येति प्राणाद्यवस्थानमविरुद्धम् । यदा सुप्तः स्वप्नं च कञ्चन पश्यति, अथास्मिन् प्राण
एवैकधा भवति, अथैनं वाक् सर्वैर्नामभिः सहाप्येति, कौ० ३-२ - 'सता सोम्य तदा
सम्पन्नो भवति स्वमपीतो भवति' - छा० ६-८-१- इत्यादिश्रुतिरुक्तसुषुप्तौ मानम् ।
प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यनाशः । यदा तु प्रागेवोत्पन्न-
ब्रह्मसाक्षात्कारस्य कार्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेह-
कैवल्यात्मिका परामुक्तिः, तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह
विदेहकैवल्यम् । ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति
परं पदमिति श्रुतेः । एवं स्वलोकवासिभिः सह कार्ये ब्रह्मणि मुच्यमाने तदधिष्ठित-
ब्रह्माण्डतदन्तर्व र्तिनिखिललोकतदन्तर्वर्त्तिस्थावरादीनां भौतिकानां भूतानां च प्रकृतौ
 
1