This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
(दि० १ पृ० २०) (वै० वि० ६।२।१५) । प्राणशरीरसंयोगे चरमत्वं च स्वसजातीय-
शरीरवृत्तिप्राणसंयोगप्रागभावानधिकरणत्वम् (राम० १ पृ० २०) । (घ) शरीरमनो-
विभागः (वै० उ० ६ ।२।१५ ) । यथा - न जायते म्रियते वा कदाचित्
(गी० २ । २०) इत्यादौ । उपात्तानां जातिविशिष्टदेहेन्द्रियमनोऽहङ्कारबुद्धिवेदनानां
परित्यागो मरणमिति सांख्या आहुः (सांख्य कौ० ) । स्कन्धनाशो मरणम् इति
बौद्धा आहुः । केचित् देहात्मनोर्विच्छेदः प्राणवायोरूत्क्रमणरूपो व्यापारविशेषो
वा मरणम् इत्याहुः ।
 
-
 
-
 
मरीचिः - अन्तरिक्षलोकः । यथा- "धुलोकादधस्तादन्तरिक्षं यत्तन्मरीचयः
(ऐ० उ० १/२ शा० भा० ) । यथा च - "मरीचिशब्देन सूर्यकिरणसम्भवात्
अन्तरिक्षलोकं लक्षयित्वा तस्यैकत्वेऽपि प्रदेशभेदात् बहुबचनं युक्तम् (ऐ० उ० १/२
शा० भा० आ० टी०) ।
 
मर्त्यः – मरणशीलः । यथा - "मरणधर्मा धर्मादनपेतम्" (का० उ० २।१३
शा० भा० ) ।
 
मर्यः – मरणशीलः । यथा - "मर्याः मरणधर्मिणः" (बृ० आ० उ० ६ ।४।४
शा० भा० ) ।
 
-
 
C
 
मलः - रागादिः · आत्मप्रतीतिबन्धकृत् । यथा- "मलो रागादिर्बन्धनम-
स्वातन्त्र्यं दुःखमेव दुःखिता प्रतिकूलवेदनीयो रजः परिणाम इति जीवधर्मः"
(सं० शा० १ पृ० ३ सु० टी० ) । यथा - "मलशब्देन तप्रसिद्धं यवस्तु याथाल्यप्रतीति-
प्रतिबन्धकृद्यथा पडूदिग्धमादर्शादि । तविरुद्धं चापगतमलत्वेन व्यवह्रीयमाणं
शुद्धमिति । तथा च परमपदस्वरूपावभासप्रतिबन्धकृदनाद्यनिर्वचनीयाऽविद्या ।"
"अनृतेन हि प्रत्यूढाः" - छा० ८।३।२ - । यथा च - "इत्याद्यनेकश्रुतिषु परमात्मवस्तु-
याथाल्यावभासप्रतिबन्धकत्वेन प्रसिद्धा सैव तस्याशुद्धिकरी चेत्यात्मनि मलस्तस्यां
हि सत्यामशुद्धोऽस्मीति प्रत्यकूपदार्थो मन्यतेऽप्रक्षालितमिव वस्त्रादि (तत्रैव अ०
का० टी० ) । M
 
महः – धर्मजन्यभास्वरबुद्धिः । यथा - "अनया हि यागाद्यनुष्ठानमनो भास्वर-
बुद्धितत्त्वम्" (तै० उ० २।४ शा० भा०, शं० न० प० बो०)।
 
महागीः - उपनिषद् । यथा- "बाह्यान्तरापेक्षया मुख्यार्थेऽप्युपनिषद् पदं
महागिर्युपचारात् वर्तत इत्यर्थः । वाक्यान्तरापेक्षया मुख्यार्थेऽप्युपनिषद् ब्रह्मविद्यायां