This page has been fully proofread once and needs a second look.

३३८
 
शावेदान्तकोशः
 
४. ....मनोमयात् (तै० उ० २।४ शा० भा०) । ५ . यथा च - स्यादेतत् - जीवस्य

साक्षात् मनोमयत्वादयः, ब्रह्मणस्तु तद्वारा ( ब्र० सू० १ ।२।१ भाम० ) ।
 
-
 

 
मनोमयशरीरम् - , मनोमयशरीर
ज्ञानेन्द्रियैः सहितं मनो मनोमयशरीरं भवति । विज्ञानमयकोशः

मनोमयकोशः प्राणमयकोशः एभिस्त्रिभिः कोशैर्मिलित्वा सूक्ष्मशरीरं भवति इदमेव

लिङ्गशरीरमप्युच्यते । यथा- पूर्वोक्तैरपञ्चीकृतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं

स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं

जायते । तदुक्तम्- पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्त्थं

सूक्ष्माङ्गं भोगसाधनम् तच्च द्विविधं परमपरं च । तत्र परं हिरण्यगर्भशरीरम्,

अपरमस्मदादिशरीरम् (वे० प० ७ प०) । यथा च - मनस्तु ज्ञानेन्द्रियैः सहितं सन्

मनोमयकोशो भवति । .....एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः

मनोमय इच्छाशक्तिमान् करणरूपः प्राणमय: क्रियाशक्तिमान् कार्यरूपः ।

योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति । एतत्कोशत्रयं मिलितं सत् सूक्ष्मशरीर-

मित्युच्यते ।...... स्थूलशरीरापेक्षया सूक्ष्मत्वादेव हेतोरेव सूक्ष्मशरीरम् । विज्ञानमया-

दिकोशत्रयं जाग्रवासनामयत्वात् स्वप्नोऽतएव स्थूलशरीरलयस्थानमिति चोच्यते

(वे० सा०) ।
 
-
 

 
मरः- , मर
पृथिवीलोकः, मर्त्यलोकः । यथा - "अदोऽम्भः परेण दिवं द्यौः

प्रतिष्ठान्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात् ता आपः (ऐ० उ० १ । १ ) । अत्र

शा० भाष्यम् - म्रियन्तेऽस्मिन् भूतानीति पृथिवीलोको मरः याः पृथिव्याः अधस्तात् ता

आपः पातालानि ।"
 
-
 
-
 
-
 

 
मरणम्, मरण
प्रणानां तनुनिष्क्रान्तिर्मरणं प्राणवियोगः, जीवस्य शरीरादपसृतिर्वा ।

यथा - अस्ति मुग्धो नाम यं मूर्च्छित इति लौकिकाः कथयन्ति । स तु किमवस्थ इति

परीक्षायामुच्यते । तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धा जागरितं स्वप्नः

सुषुप्तमिति । चतुर्थी शरीरादपसृतिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ

स्मृतौ वा प्रसिद्धास्ति (ब्र० सू० ३।२।१० शा० भा०) । यथा च - अत्र

केचिन्मरणमूर्च्छयोरवस्थान्तरत्वमाहुः । अपरे तु सुषुप्तावेव तयोरन्तर्भावमाहुः (वे०

प० ७ प०) । यथा च यद्यपि सत्यपि मोहे न मरणम् । तथाप्यसति मोहे मरणमिति

मरणार्थो मोहः (ब्र० सू० ३।२।१० भाम०) । (क) जीवनादृष्टनाशः । मरणं च

धर्माधर्माधीनम् । तथा च सूत्रं तत्संयोगो विभाग इति (वै० सू० ६ ।२।१५) । (ख)

प्राणध्वंसः । (ग) चरमप्राणशरीरसंयोगध्वंसः (गौ० वृ० १/१/१९) (नील० पृ०४२)
 
-