This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
क० त०) । यथा च – "इदानीं न्यायतस्तत्तात्पर्यावधारणं श्रवणं तदनुग्राहकानुमानादिरूप -

युक्त्यनुचिन्तनं मननमिति पक्षे विध्यन्तरेणापि तयोर्निदिध्यासनस्य च विधाना-

सम्भवमाह" (तत्रैव क० त० परि०) । यथा च - "इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं

भवेत् । युक्त्या सम्भावितत्वानुसन्धानं मननं तु तत्" (प० द० १ ।५३) । यथा च -

"षड्विधलिङ्गतात्पर्यपूर्वकं मननं तु श्रुतस्य अद्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभि-

रनवरतमनुचिन्तनम्" (वे० सा० ) । यथा च - "मननं नाम शब्दावधारितेऽर्थे

मानान्तरविरोधशङ्कायां तन्निराकरणानुकूलतर्कात्मज्ञानजनको मानसो व्यापारः (वे०प०

८५०) । यथा च -यपुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाविधिशेषत्वं

ब्रह्मणो न स्वरूपपर्यवसायित्वमिति । न अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि

ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषत्वम् । न तु तदस्ति; मनननिदिध्यासनयोरपि

श्रवणवदवगत्यर्थत्वात् (ब्र० सू० १/१/४ शा० भा० ) ।
 

भामतीकारमते निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात्कारणम् । श्रवणं मनने हेतु-

र्मननं च निदिध्यासने हेतुः । विवरणकारमते ब्रह्मसाक्षात्कारे श्रवणं साक्षात्कारणम् ।

मनननिदिध्यासनयोस्तु अरादुपकारकत्वादङ्गत्वम् । यथा - तत्र निदिध्यासनं ब्रह्मसाक्षात्कारे

साक्षात्कारणम् । ........निदिध्यासने च मननं हेतुः । अकृतमननस्यार्थदादर्याभावेन

तद्विषये निदिध्यासनायोगात् । मनने तु श्रवणं हेतुः । श्रवणाभावे तात्पर्यानिश्चयेन....

मननायोगात् . .... केचिदाचार्या उचिरे । अपरे तु श्रवणं प्रधानम्...मनननिदिध्यासन-

योस्तु अरादुपकाराकाङ्गत्वमित्याहुः (वे० प० ८ प०) । अधिकन्तु ब्र० सू०
 

३।४।६ शा० भा० भामत्यां तथा पञ्चपादिकाविवरणप्रथमवर्णक ।
 
.....
 
-
 

 
मनोदृश्यम् - , मनोदृश्य
कल्पितरूपम् । यथा - कथं तेन हि मनसा विकल्प्यमानेन दृश्यं

मनोदृश्यमिदं सर्वं मन इति प्रतिज्ञा (मा० उ० गौ० का० ३।३१ शा० भा०) ।
 

 
मनोमयः- , मनोमय
मनश् शब्दाप्राचुर्यार्थे मयट् । यथा आनन्दप्रचुरत्वाद् आनन्दमय

उच्यते तथैव विज्ञानमयः मनोमयः प्राणमयः अन्नमयश्च ।
 
-
 
-
 

 
मनोमयकोशः - , मनोमयकोश
१. ज्ञानेन्द्रियसहितं मनः । यथा - मनस्तु ज्ञानेन्द्रियैः सहितं

सन्मनोमयकोशो भवति (वे० सा०) । यथा च - सात्त्विकैर्धीन्द्रियैः साकं विमर्शात्मा

मनोमयः तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका (प० द० १ ।३५) ।२. मनोमय

इच्छाशक्तिमान् करणरूपः (वे० सा०) ३. मनोमयः प्राणशरीरः (छा० ३।१४।२)।