This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
पा० वि० १ वर्णके) । एवमेव शारीरकन्यायसंग्रहे सर्वापेक्षाधिकरणे । अत्र

विवरणवाक्ये चित्तेन्द्रियमिति कथयता चित्तस्य मनसः इन्द्रियत्वमभिप्रैतीतिवद्

आभाति । यथा च - त इन्द्रियाणि तद् व्यपदेशादन्यत्र श्रेष्ठात् (ब्र० सू० २।४।१७

शा० भा० ) ।
 
-
 
·
 

यथा च - (द्रव्यम्) १ (क) निःस्पर्शमणु (न्या० म० १ ।१४) (वै० ७।१।३)

(गौ० वृ० १ ।१ ।१६) । अत्र व्युत्पत्तिः मन्यतेऽनेन मनः इति । करणार्थे अगुन् प्रत्ययः ।

तच्च मनः सर्वेन्द्रियप्रवर्तकम् आन्तरेन्द्रियं स्वसंयोगेन बाह्येन्द्रियानुग्राहकम्, अत एव

सर्वोपलब्धिकारणम् (त० भा० प्रमेयनि० पृ० ३२) मनः सद्भावे प्रमाणमनुमानम् ।

तच्चानुमानं सुखादिसाक्षात्कारः करणसाध्यः जन्यसाक्षात्कारत्वाच्चाक्षुषसाक्षात्कारवत्

इति । आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोभावश्च मनसो लिङ्गम् (वै० ३।२।१ ) ।

भावः अभावः इति पदच्छेदः । यत्संयोगव्यतिरेकात्सुषुप्तिकाले कर्मानुत्पादः तदेव मनः

इति (पं० मा०) । युगपज्ज्ञानानुत्पत्तिः मनसो लिङ्गम् (गौ० १।१।१६) । (ख) मनस्त्व-

भिसम्बन्धवत् (त० भा०) (प्रशस्त० पृ० २३) (न्या० म०) । (ग) मयि सुखमिति

सुखप्रत्यक्षस्यासाधारणं कारणम् (त० कौ०) (ता० २० श्लो० ३०) । अत्र मनसः

प्रत्यक्षकरणत्वे आत्ममन संयोगो व्यापारो बोध्यः (त० कौ०) । (घ) सुखाद्युपलब्धि-

साधनमिन्द्रियम् (गौ० वृ० १/१/१६) (त० भा० अर्थ० पृ० ३१) (भा०प०)

(त० सं० ) यथा - सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्ति इति सर्वविषयमन्तःकरणं

मनः (वात्स्या० १।१।९) । मनो नेन्द्रियमिति मायावादिनो वेदान्तिनो वदन्ति । न्यायनये

मनस्यष्टौ गुणास्तिष्ठन्ति संख्या अणुपरिमाणं पृथक्त्वं संयोगः विभागः परत्वम्

अपरत्वम् वेगश्चेति (वै० ३।२।२-३) तथा च - मनसः क्रियावत्त्वान्मूर्त्तत्त्वं

गुणवत्त्वाद् द्रव्यत्वं प्रयत्नादृष्टपरिग्रहवशादाशु सञ्चारित्वम (प्रशस्त० पृ० २३-२४)।

इति । मायावादिनस्तु सङ्कल्पविकल्पात्मकवृत्तिमदन्तःकरणं मन इत्याहुः। तच्च

तन्मते सुखदुःखादीनामाधारः । अत्र श्रुतिं प्रमाणयन्ति मायावादिनः- कामः सङ्कल्पो

विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत्सर्वं मन एव ( बृ० उ० १।५।३) ।

इति । न्यायमते तु तदाधार आत्मैव इति भेदाः । २. मनः शिलानामको धातुविशेषः

इति भिषज: आहुः (न्यायकोशः) ।
 

 
मननम् - , मनन
श्रवणानन्तरं युक्त्यनुचिन्तनम् । यथा च - "एवं मननस्यापि

विषयविशेषनियतयुक्त्यालोचनस्यावगतस्य कर्तुमशक्यत्वादिति (ब्र० सू०१ । १४ वे०