This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
-
 
-
 
.........
 
याजन्यत्वादिति वाच्यम् । न हीन्द्रियजन्यत्वेन ज्ञानस्य साक्षात्त्वम् । अनुमित्यादेरपि
मनोजन्यतया साक्षात्त्वापत्तेः । ईश्वरज्ञानस्यानिन्द्रियजन्यस्य साक्षात्वानापत्तेश्च (वे०
प० १ ५०) । भामतीकारवाचस्पतिमते मनस इन्द्रियत्वमङ्गीकृतम् । यथा - यदि च
प्राणरूपतामिन्द्रियाणामभिंदधाति श्रुतिस्तथापि पौर्वापर्यालोचनायां भेद एव प्रतीयत
इत्युक्तं भाष्यकृता । तस्माद् बहुश्रुतिविरोधात् पूर्वापरविरोधाच्च प्राणरूपाभिधान-
मिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् । मनसस्त्विन्द्रियत्वे स्मृतेरवगते
क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीवर्दन्यायेन । अथवा इन्द्रियाणां वर्तमानत्वमात्र-
विषयत्वान् मनसस्तु त्रैलोक्यगोचरत्वाद् भेदेनाभिधानम् (ब्र० सू० २/४/१७
भाम०) । श्रीवाचस्पतिमिश्रमते ब्रह्मसाक्षात्कारे मनसः कारणत्वमपि स्वीकृतम् । यथा -
न चैष साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम् । अपि तु प्रत्यक्षस्य । तस्यैव
फलनियतत्वात् ।.... तस्माद् निर्विचिकित्सितवाक्यार्थभावनापरिपाकसहितमन्तःकरणं
त्वंपदार्थापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थमनुभावयतीतियुक्तम् ।......
एवं वेदान्तार्थज्ञानाभ्यासाहितसंस्कारो जीव: स्वस्य ब्रह्मभावमन्तःकरणेन (ब्र० सू०
9 19 19 भाम० ) । यथा च तस्माद् यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कार-
सचिवेन श्रोत्रेण षड्जादिस्वरग्राममूर्च्छनाभेदमध्यक्षेणेक्षते एवं वेदान्तार्थज्ञानाहित-
संस्कारो जीवस्य ब्रह्मस्वभावमन्तःकरणेन (ब्र० सू० ४/१/२ भाम० ) । यथा
च - अयमभिसन्धिः सत्यं न ब्रह्मसाक्षात्कारः साक्षादागमयुक्तिफलमपितु युक्त्यागमार्थ-
ज्ञानाहितसंस्कारसचिवं चित्तमेव ब्रह्मणि साक्षात्कारवतीं बुद्धिवृत्तिं समाधत्ते । सा च
नानुमानितवह्निसाक्षात्कारवत् प्रातिभत्वेनाप्रमाणम् । तदानीं वह्निस्वलक्षणस्य परोक्षत्वात् ।
सदातनं तु ब्रह्मस्वरूपस्योपाधिरुषितस्य जीवस्यापरोक्षत्वम् । नहि शुद्धबुद्धत्वादयो
वस्तुतस्ततोऽतिरिच्यन्ते । जीव एव तु तत्तदुपाधिरहितशुद्धादिस्वभावो ब्रह्मेति गम्यते ।
न च तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते (तत्रैव) । विवरणप्रस्थाने ब्रह्मसाक्षात्कार-
कारणं शब्दः । यथा - ननु ततस्तु ते पश्यते निष्कलं ध्यायमानः इति ध्यानमपरोक्षफलं
श्रूयते । सत्यम् । एकस्य चित्तस्य समवधानता तदैकग्र्यनिमित्तं भवति । तदेकण्य-
चेतसा सहकारिणा शब्द एव औषनिषदम् इति तद्धितप्रत्ययसामर्थ्यात्
अपरोक्षज्ञानमुत्पादयति (प० पा० वि० २ वर्णके) । यथा च - चित्तेन्द्रियं
पारोक्ष्यविभ्रमनिमित्तप्रतिबन्धनिरासेन शब्दादेव अपरोक्षनिश्चयनिमित्तं भवतीति
गम्यते । लोके तु अतिसूक्ष्मतरवस्तुनिर्धारणे चित्तैकाग्यविशेषापेक्षाया दर्शनात् । एवं तं
त्वौपनिषदम् इति तद्धितप्रत्ययेन ब्रह्मावगतिहेतुत्वं शब्दस्य दर्शितमुपपन्नं भवति (प०