2023-03-12 05:01:33 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
-
यथा च - तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद् द्विधा । मनो विमर्शरूपं स्याद्
बुद्धिः स्यान्निश्चयात्मिका (प० द० १ / २०) । यथा च -"तच्चात्मनः उपाधिभूतमन्तः-
करणं मनोबुद्धिर्विज्ञानं चित्तमिति चानेकधा तत्र तत्राभिलप्यते । ......कामः सङ्कल्पो
विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत्सर्वं मनः । क्वचिच्च वृत्तिविभागेन
संशयादिवृत्तिकं मन इत्युच्यते निश्चयादिवृत्तिकं बुद्धिरिति तच्चैवंभूतमन्तः-
करणमवश्यमस्तीत्युपगन्तव्यम् (ब्र० सू० २ । ३ । ३२) । यथा च - तमसि विनालोकेन
चक्षूरूपसन्निकर्षो नक्तञ्चराणां रूपज्ञाने निमित्तं भवति । मन एव केवलं रूपज्ञाननिमित्तं
योगिनाम् (बृ० उ० १ ।४।२शा० भा० ) ।२. मनसः करणमहङ्कारः । यथा - मन इति
मनसः करणमहङ्कारो गृह्यते (गी०७४ शा० भा० ) । यथा च - "मनः शब्देन न च
परिशिष्टमव्यक्तं लक्ष्यते । मनः शब्देन वा स्वकारणमहङ्कारो लक्ष्यते पञ्चतन्मात्रसन्निकर्षात्"
(तत्रैव म० सू०) । ३. यथा च - "विवेकबुद्धिः" । यथा - "मनसा विवेकबुद्ध्या
(गी० ५/१३ शा० भा० ) । यथा च - " विचारतया" मनसेति । यद्यन्मया दृश्यते
बाह्यं घटादि तत्तदहं न भवामि तथाऽस्मिन्नपि संघाते यद्यद् दृश्यं तत्तदहं न
भवामि किन्तु योऽत्र ज्ञोंशः सोऽस्मि सर्वशरीरेष्वेकलक्षणलक्षितत्त्वादेक एवेति
विचारेण प्रथमं सम्भावित इत्यर्थ:" (का० उ० ६।९ शा० भा० आ० टी० ) । यथा
च - "त्रयाभावे तु निर्वैतः पूर्ण एवानुभूयते । समाधिसुषुप्तिमूर्च्छासु पूर्णः सृष्टेः
पुरा तया" (प० द० ११ ।१६) ।
३३४
1
अद्वैतवेदान्तनये केषाञ्चन नये मनस इन्द्रियत्वं न तथा केषाञ्चन नये च
इन्द्रियत्वमस्ति विवरणप्रस्थानानुसारिवेदान्तपरिभाषायां यथा - नन्वन्तःकरणस्येन्द्रि-
यतया अतीन्द्रियत्वात् कथमहमिति प्रत्यक्षविषयतेति । उच्यते- न तावदन्तः-
करणमिन्द्रियमित्यत्र मानमस्ति । मनः षष्ठानीन्द्रियाणि इति भगवद्गीतावचनं
प्रमाणमिति चेत्, न । अनिन्द्रियेणापि मनसा षत्वसंख्यापूरणाविरोधात् । नहीन्द्रिय-
गतसंख्यापूरणमिन्द्रियेणैवेति नियमः । यजमानपञ्चमा इडां भक्षयन्ति इत्यत्र
ऋत्विग्गतपञ्चत्वसंख्याया अनृत्विजापि यजमानेन पूरणदर्शनात् । वेदानध्यापयामास
महाभारतपञ्चमम् इत्यत्र वेदगतपञ्चत्वसंख्याया अवेदेनापि महाभारतेन पूरणदर्शनात् ।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः (का० १।३।१०) इत्यादिश्रुत्या मनसोऽनि-
न्द्रियत्वावगमाच्च । न चैवं मनसोऽनिन्द्रियत्वे सुखादिप्रत्यक्षस्य साक्षात्त्वं न स्यादिन्द्रि-