This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
मद्योगः, मद्योग
भगवते सर्वकर्मसमर्पणपूर्वकं कर्मानुष्ठानम् । यथा च - "मद्योग-

मास्थितो मयि क्रियमाणानि कर्माणि संन्यस्य यत्करणं तेषामनुष्ठानं स मद्योगः

(गी० १२/११ शा० भा०) । यथा च - "मद्योगं मदेकशरणत्वमाश्रितः मयि

सर्वकर्मसमर्पणं मद्योगः (तत्रैव म० सू०) । यथा च - मयि सर्वाणि कर्माणि संन्यस्य

तेषामनुष्ठानं मद्योगः (तत्रैव भाष्यो०)।
 
-
 
-
 

 
मदामदः, मदामद
विरुद्धधर्मवान्, अलौकिकः इति । यथा - "एवमसावात्मा देवो

मदाऽमदः समदोऽमदश्च सहर्षोऽ हर्षश्च विरुद्धधर्मवानतोऽ शक्यत्वाज्ज्ञातुं कस्तं

मदामदं देवं मदान्यो ज्ञातुमर्हति (का० उ० १/२/२१ शा० भा०) ।
 

 
मधुज्ञानम् - , मधुज्ञान
मधुविद्या, ब्रह्मज्ञानम् । यथा - ब्रह्मविद्याख्यं मध्वमृतममृतत्वं

मोदनहेतुत्वात् विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणम् (मा० उ० गौ० काo

३।१२ शा० भा० ) ।
 
-
 

 
मध्वदः - , मध्वद
कर्मफलभोक्ता जीवः आत्मा । यथा - मधु कर्मफलं अत्तीति मध्वदः

तमिति व्युत्पत्याह । सामीप्यं चात्राभेदः । अभेदेन वेदेत्यर्थ: (का० उ० ४ । ५) । यथा

च - किञ्च यः कश्चिदिमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्याधारयितार-

मात्मानं वेद विजानाति (का० उ० ५ शा० भा० ) ।
 
-
 

 
मध्यमधीः - , मध्यमधी
ब्रह्मजिज्ञासुः । यथा - "यस्तु समस्तकारणतया परस्य सत्त्वं

निश्चित्य तत्स्वरूपं जिज्ञासते स मध्यमधीः" (सं० शा० ३।२४० अ० टी०) ।
 
-
 

 
मनः- , मनस्
१. अन्तःकरणस्य वृत्तिभेदः । यथा - "मय्यर्पितमनोबुद्धिसङ्कल्पात्मकं

मनोऽध्यवसायलक्षणा बुद्धिस्ते मय्येवार्पिते स्थापिते यस्य सन्यासिनः स

मय्यर्पितमनोबुद्धिर्य ईदृशो मद्भक्तः स मे प्रियः" (गी० १२।१४ शा० भा०) । यथा

च – "मयि निर्गुणे ब्रह्मण्यर्पिते निहिते प्रविलापिते वा मनः सङ्कल्पादिरूपं बुद्धिरध्यव-

सायस्ते उभे येन स मय्यर्पितमनोबुद्धिः" (तत्रैव नी० क०) । यथा च – "यतः सततं

मयि परमात्मनि सङ्कल्पविकल्पात्मकं मनोऽध्यवसायलक्षणा बुद्धिश्च ते मय्येव स्थापिते

यस्य स. यतो मय्यर्पितमनोबुद्धिरिति वा" (तत्रैव भाष्यो०) ।