This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 

 
तयोः स्वरूपं चेत्थम् । दोषेण कर्मणा वापि क्षोभितो ज्ञानसम्भवः । तत्त्वविद्याविरोधी
भ्रमोऽयं निरूपाधिकः। उपाधिसन्निधिप्राप्तक्षोभाविद्याविजृम्भितम् ।
उपाध्यपगमापोह्यमाहुः सोपाधिकं भ्रमम् ॥ (सर्व० सं० पृ० ४२१ शा० ) । (ङ)
मिथ्याज्ञानापरपर्यायः अयथार्थनिश्चयः । (गौ० वृ० ४ । १ ।३) (त० सं०) । अयं च
मोक्षपर्यन्तगतो दोषविशेष इति विज्ञेयम् (न्याय- कोश:) । १. भ्रमः ( अमरः) । २.
योगान्तरायश्चित्तविक्षेपो भ्रान्तिः इति योगशास्त्रज्ञा आहुः (पात० पा० १ सू० ३० ) ।
अत्रोच्यते व्यवहारविषये षाण्मासिके तु सम्प्राप्ते भ्रान्तिः सञ्जायते नृणाम् ।
धात्राक्षराणि सृष्टानि पत्रारूढ़ान्यतः पुरा ॥ (ज्यो० त०) (वाच०) इति ।
 
-
 
-
 
भ्रमोपादानम् - तमश्चाकचिक्यादिदोषसहकृतेन्द्रियवैकल्यतो जातविवेकाग्रहो
भ्रमोपादानम् । अत एव तमसि रज्जौ सर्पभ्रमस्तथा शुक्तौ चाकचिक्येन रजतभ्रमः ।
यथा – यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रमः (ब्र० सू० शा० भा० उपो०)।
भ्रमः, ख्यातिः, अध्यासः । ख्यातिशब्दो भ्रमशब्दश्च द्रष्टव्यौ ।
 
भ्रान्तिः
 
भ्रान्तिदर्शनम् - अतस्मिंस्तद्बुद्धिः (सर्व० सं०) । तथा (ब्र० स० शा० भा०
 
L
 
उपो० ) ।
 
-
 
मटची - अशनिः पाषाणवृष्टिः । यथा - "मटची हतेषु मटच्योऽशनयस्ता-
भिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः । ततो दुर्भिक्षे जात आटिच्याऽनुप-
जातपयोधरादिस्त्रीव्यञ्जनया सह जाययोषस्तिर्ह... (छा० उ० १/१०/१ शा०
भा० ) । यथा च- "मटच्यो मर्दनहेतवोऽशनयः पाषाणवृष्टयो वा ततः
सस्यनाशादित्येतत्सर्वतः स्वैरसञ्चारेऽपि न व्याभिचारशङ्केति । (छा० उ०
१।१०।१ शा०भा० आ० टी०) ।
 
-
 
-
 
-
 
मत्कर्म - भगवप्रीत्यर्थं श्रवणादिकं दशविधं कर्म । यथा - "मत्कर्मपरमोभव
मदर्थं कर्म मत्कर्म तत्परमो मत्कर्मप्रधान इत्यर्थः (गी० १२/१० शा० भा० ) । यथा च -
"मत्कर्म श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं
सख्यमात्मनिवेदनम्" ॥इति नवविधभजनात्मकं भगवत्प्रीत्यर्थ कर्म मत्कर्मशब्दितं तदेव
परमावश्यकं यस्य तादृशो भव" (तत्रैव नी० क० ) ।