This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्र अन्यधर्माध्यास इति वदन्ति (ब्र०
सू० उपो० शा० भा०) । इत्यादि । अयं च ख्यातिशब्देनापि दर्शनग्रन्थेषूपलभ्यते ।
यथा- आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । परीक्षकाणां विभ्रान्तौ
विवादात् सा विविच्यते । (विभ्रमविवेके १) एतदर्थं ख्यातिशब्दो द्रष्टव्यः । अधिकं
तु मदीये चतुर्दशख्यातिविवेकग्रन्थे द्रष्टव्यम् । १. (अप्रमा) (क) यत्र यन्नास्ति
तत्र तस्य ज्ञानम् । समुदायार्थश्च तदभाववन्निरूपिततन्निष्ठविषयताप्रतियोगि
ज्ञानम् इति । अत्र स्मृतेरपि भ्रमतया अनुभवत्वमपहाय ज्ञानत्वप्रवेशः (मु०म० १
प्रामा० पृ० ४०५) भ्रमश्च दोषाज्जन्यते । भ्रमलक्षणं तु स्वानुयोगिनिष्ठविशेष्यता-
निरूपितत्वस्वप्रतियोगिनिष्ठत्वस्वावच्छिन्नत्व एतन्त्रितयसम्बन्धेन सम्बन्धविशिष्टान्य
प्रकारताशालिज्ञानत्वम् (ग० अव० हेतु०) इति । अत्र स्वपदार्थस्तु विशेष्य-
विशेषणयोर्भासमानः सम्बन्धो ज्ञेयः । अत्रेदमवधेयम् । विपर्ययोऽपि प्रत्यक्षानुमानविषय
एव भवति । प्रत्यक्षविषये तावत् प्रसिद्धानेकविशेषस्यापि पित्तकफानिलोपहतेन्द्रिय-
स्यायथार्थलोचनात् सम्प्रत्यसन्निहितविषयविज्ञानजसंस्कारापेक्षादात्ममनसोः संयोगा-
दधर्मत्त्वात्तस्मिन् तत् इति प्रत्ययो विपर्ययः । यथा गच्छत्येव अश्व इति । असत्यपि
प्रत्यक्षे प्रत्यक्षाभिमानो भवति । यथा - अपगतघनपटलमचलविषयेऽपि
वाष्पादिभिर्धूमाभिमतैर्वह्न्यनुमानं गवयविषाणदर्शनाच्च गौः इति त्रयीदर्शन-
विपरीतेषु शाक्यादिदर्शनेषु इदं श्रेयः इति मिथ्याप्रत्ययो विपर्ययः (प्रशस्त० पृ० २४) ।
(ख) तदभाववति तत्प्रकारकं ज्ञानम् (चि० १ प्रामा० पृ० ४०१) (त० प्र० १)
(त० दी०) । (ग) अतस्मिन् तत् इति प्रत्ययः । (न्या० बा० १ पृ० २६) (भा०प०
श्लो० १२८) (त० भा० पृ० ४०) । (घ) विशेष्यताव्यधिकरणप्रकारकं ज्ञानम् ( म०
प्र० ४ पृ० ७३) । यथा - पुरोवर्तिन्येवारजते शुक्त्यादौ रजतारोपः । इदं रजतमिति
ज्ञानम् (त० भा० पृ० ४०) (त० प्र० १) (त० दी०) । यथा वा पीतः शङ्खः लोहितः
स्फटिकः इत्यादिज्ञानम् । (त० कौ) (भा०प० श्लो० १२९) । यथा वा कृशोऽहम्
बधिरः, स्थूलः इति ज्ञानम् (त० व०) । भ्रमो द्विविधः विपर्यासः (विपर्ययः)
संशयश्च । तत्राद्यो यथा शरीरादौ आत्मत्वप्रकारकं गौरोऽहम् इत्याकारकं
निश्चयरूपं ज्ञानम् (मु० गु०) द्वितीयो यथा स्थाणुर्वा पुरुषो वा इति संशयरूपः
(भा० प० श्लो० १३०) प्रकारान्तरेण भ्रमो द्विविधः निरूपाधिकः सोपाधिकश्च ।
 
-
 
-