This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
चतुर्दशभुवनान्येतदायतनभूतं ब्रह्माण्डं चैतत् सर्वमेतेषां कारणरूपं पञ्चीकृतभूतमात्रं

भवति (वे० सा०) । यथा च - भोगस्यावच्छेदकम् । यथा यदवच्छिन्नात्मनि भोगो

जायते तद्भोगायतनम् (त० दी० १) इत्यादौ शरीरावच्छिन्न आत्मनि भोगो जायत

इति शरीरं भोगायतनम् । तच्च भोगायतनम् स्थूलदेहः इति सांख्या आहुः । अत्र

सूत्रं भोक्तुरधिष्ठानाद् भोगायतननिर्माणम् । अन्यथा पूतिभावप्रसङ्गात् (सांख्य सू०

५।११४) । इति । अत्र केचिद् वेदान्तिन आहुः । भोगसाधनं च लिङ्गशरीरमेव । तथा

चोक्तं पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ।

इति । साख्यमते तु पञ्चप्राणस्थले पञ्चभूतमात्राः इति भेदः । स्थूलदेहस्य भोगत्वं

तु भोगावच्छेदकत्वात् उपचारादिति बोध्यम् । अत्र सूत्रम् - तदधिष्ठानाश्रये देहे

तद्वादात्तद्वादः (सांख्य सू० ३।११) । इति । (न्यायकोशः) ।
 
-
 

 
भोज्यम्, भोज्य
जडजगत् । यथा - "भोक्तारं जीवं भोज्यं प्रपञ्चम्" (सं० शा०

३।२९३ अ० टी०) । यथा च - एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं

हि ञ्चत् । भोक्ता भोग्यं प्रेरयितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मैतत्

(श्वेता० उ० १।१२ ) ।
 
-
 

 
भौतिकसृष्टि:- , भौतिकसृष्टि
सर्गाधकाले प्राणिनां फलोन्मुखकर्मप्रेरणया परमेश्वरे सिसृक्षा

जायते । स सङ्कल्पयति- एकोऽहं बहु स्याम् । ततः अपञ्चीकृतानि पञ्चभूतानि

तन्मात्रपदवाच्यानि जायन्ते । ततः क्रमेण ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि पञ्चीकृतभूताश्च

पृथिव्यादीनि पञ्चमहाभूतानि च जायन्ते । यथा - ततः सर्गाद्यकाले परमेश्वरः

....... सङ्कल्पयति तदैक्षत बहुस्यां प्रजायेय- छा० ६।२।३ । तत आकाश आदीनि

पञ्चभूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते । इमानि भूतानि

त्रिगुणमायाकार्याणि त्रिगुणानि ....पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महः .......उत्पत्तिः ।

....एवं भूतभौतिकसृष्टिर्निरूपिता (वे०प० ७ प० ) । यथा च पञ्चीकृत-

पञ्चभूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः (वे० सा०) । यथा च - स्वांशैः पञ्चभिस्तेषां

क्रमादीन्द्रियपञ्चकम् । श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते (प० द० १ । १९) ।
 
-
 
...
 
-
 
-
 
…………....
 

 
भ्रमः - , भ्रमः
उत्तरकाले बाधितज्ञानं भ्रम उच्यते । यथा रज्जौ सर्पभ्रमः शुक्तौ

रजतभ्रमश्च । अयमेव अयथार्थानुभव इत्यपि कथ्यते । यथा तदभावति

तप्रकारकोऽनुभवोऽयथार्थः । .....अयथार्थानुभवस्त्रिविधः संशयविपर्पयतर्कभेदात्

(त० सं० ४ ख०) । अयम् अध्यासशब्देन शाङ्करवेदान्ते व्यवह्रियते सच-