2023-03-25 07:24:18 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शाङ्करवेदान्तकोशः
नेत्युक्तम्" (ब्र० सू० २।१।१३ शा० भा०) । यथा च - "सोपाधिकेन रूपेण यज्ञानां
तपसां च कर्तृरूपेण देवतारूपेण च भोक्तारम्" (गी० ५।२९ नी० क०) ।
भोगः
कर्मजनितफलप्राप्तिः । अयं च भोगः ....यस्मिल्लोके चन्द्रादिलोके
च तथा मनुष्यादीनां देवादीनां च तारतम्येन भोगो न्यूनाधिकरूपेण भवति । यथा-
तथा हि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति स सोमलोके विभूतिमनुभूय
पुनरावर्तते - प्र० ४/५ - इति । तथान्यदपि श्रुत्यन्तरम् - अथ ये शतं पितॄणां
जितलोकानामानन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते बृ०
४।३।३३ । इतीष्टादिकारिणां देवैः सह संवसतां भोगप्राप्तिं दर्शयति (ब्र० सू०
३।१।७) । यथा च इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां
भुक्तभोगानां ततः प्रत्यवरोह आम्नायते- तस्मिन् यावत्... - छा० ५/१०/4 (ब्र०
सू० ३।१।८) ।
-
-
-
१. (क) सुखदुःखान्यतरसाक्षात्कारः (त० भा० पृ० ४) (त० दी० १ पृ० ७)
(वाक्य०) । (ख) स्वसमवेतसुखदुःखान्यतरलौकिकसाक्षात्कारः (प्र० प्र०) । यथा-
आत्मनो भोगायतनं शरीरम् (त० दी० १) इत्यादौ भोगः । यथा - ॐ भोगमात्रसाम्यलिङ्गाच्च
ॐ (ब्र० सू० ४।४।२१) । इत्यादौ आहुः । अत्र भविष्यपुराणम्- मुक्ताः प्राप्य
परं विष्णुं तद्भोगल्लेशतः क्वचित् । बहिःष्ठान् भुञ्जते नित्यं नानन्दादीन् कथञ्चन
(मध्वभा० ४।४।४) । इति । २. रव्यादीनां राशिगतकालः । इति ज्योतिर्विद आहुः ।
अत्रोच्यते अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः (तिथि० त०) । इति ।
३. सर्पदेहः इति काव्यज्ञा आहुः (न्यायकोशः) ।
-
भोगायतनम्
भोगस्य कर्मफलभोगस्य आयतनं स्थानं साधनमिति यावत् ।
तच्च भोगायतनं शरीरमित्यर्थः । इदं च शरीरं त्रिविधम् - कारणशरीरंम् (कारण-
शरीरं सवासनो जीवः) । सूक्ष्मशरीरम् (लिङ्गशरीम्) स्थूलशरीरञ्च । यथा - पूर्वोक्तैर-
पञ्चीकृतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं
ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं जायते । ब्रह्माण्डस्य
जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधशरीराणामुत्पत्तिः। ............वृक्षादीनामपि
पापफलभोगायतनत्वेन शरीरत्वम् (वे० प० ७ प०) । यथा च - एतद्भोगायतनं
चतुर्विधसकलस्थूलशरीरजातं एतद्भोग्यरूपान्नपानादिकमेतदायतनभूतभूरादि-