This page has been fully proofread once and needs a second look.

३२८
 
शारवेदान्तकोशः
 
हेतुरस्तीति संशयेन- पूर्वपक्षः । अत्रोच्यते अक्षरस्य जगद्योनिमुक्त्वा ह्यनन्तरं यः
 
"भूतयोनिर्जडः
 

सर्वज्ञश्रुत्या सर्वज्ञस्य स उच्यते" ( तत्रैव भाम० ) । यथा च
"भूतयोनिर्जडः
परिणममानत्वाद् विवर्तमानत्वाद् वा सम्मतवदित्यर्थः (वे० क० त० ) । यथा च

परिणामवितर्तयोर्भेदे स्थिते, यदि विश्वस्य भूतयोनिपरिणामत्वमभ्युपगम्यते, यदि वा

तद्विवर्तत्वम्, उभयथापि भूतयोनिर्जडाङ्गीकार्या कनकरुचकस्रग्भुजङ्गादि-

लोकदृष्टोर्णनाभ्यादिश्रुत्युपात्तदृष्टान्तानुसारेण" (वे० क० त० प० ) ।
 

 
भूतसृष्टि: - , भूतसृष्टि
भूतानां पृथिवीजलतेजोवाय्वादीनां सृष्टि: उत्पत्तिः । यथा-

"तम प्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया । वियत्पवनतेजोम्बुभुवो भूतानि जज्ञिरे

(प० द० १।१८) ।
 
-
 
1
 

 
भूमभावः , भूमभाव
परमात्मभावः । अज्ञानाकलुषितः आत्मभावः । यथा च-

"स्वाश्रयविषयानादिभावरूपाज्ञानेन कल्पितो यस्त्रिविधो भेदस्तेन कलुषीकृत

आच्छादितो भूमभावः पूर्णानन्दस्वरूपता यस्या इति त्वंपदवाच्योक्तिः" (सं० शा० १

सु० टी० पृ० ९४) ।
 
-
 
-
 
भूमा-

 
भूमा, भूमन्
अनन्तः सर्वतो महान् परमात्मा भूमा विद्या च । यथा च - "तत

इदमुच्यते - परमात्मैवेह भूमा भवितुमर्हति न प्राणः । कस्मात् ? सम्प्रसादादध्युपदेशात्"

(ब्र० सू० १।३।८ शा० भा०) । छान्दोग्योपनिषदि सप्तमाध्याये त्रयोविंशखण्डे

भूमाविद्या वर्णितास्ति । यथा यदमृतं तदेव भूमा ब्रह्मेत्यर्थः यदल्पं तदेव म

सर्वदुःखमूलमित्यर्थः । यथा - यो वै भूमा तत्सुखं नाल्पे सुखमस्ति । भूमैव सुखं भूमा

त्वेव विजिज्ञासितव्य इति । भूमानं भगवो विजिज्ञास इति (छा० उ० ७।२३।१ ) ।

यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्य-

त्यन्यच्छृणोत्यन्यद् विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम् । स भगवः

कस्मिन् प्रतिष्ठित इति । स्वे महिम्नि यदि वा न महिम्नि (तत्रैव ७।२४।१ ) । यथा

च - "भूमा बाहुल्यम्" (गौ० प्र०) ।
 

 
भोक्ता - , भोक्तृ
अज्ञानकल्पितो जीवभावो । अभोक्तृत्वेऽपि भोक्तारं मन्यमानो अबुद्धो

अज्ञानबद्धो जीवः । यथा - "एवं विवेचिते तत्त्वे विज्ञानमयशब्दितः । चिदाभासो

विकारी यो भोक्तृत्वं तस्य शिष्यते (प० द०७।२१६ ) । यथा च - "भोक्तारं जीवं

भोज्यं प्रपञ्चम्" (सं० शा० ३।२९३ अ० टी०) । यथा च – "भोक्तृभोग्ययोरैक्यम् ।

उपाधिनिमित्तो विभाग आकाशस्येव घटाधुपाधिनिमित्त इत्यतः परमकारणाद्
 
C