This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
३२७
 
"भावार्थशब्दा यजत्यादिधातवः । तेभ्यो यद्यपि विषयमात्रस्याधिगतिः, तथापि

विषयाधीनप्रतिपत्तिकत्वादपूर्वस्य कार्यस्य विषयवाचकेभ्य एव तस्याप्यधिगतिरुक्ता"

(क० त० प०) ।
 
-
 

 
भावाद्वैतम्, भावाद्वैत
श्रीमण्डनमिश्रो भावाद्वैतं मन्यते । मिश्रस्यायमभिप्रायो यद्

भावपदार्थ एक एव । स च ब्रह्म । अतः यः सत् स एव भावः स च ब्रह्म । अयं भावाद्वैत-

वादी सत्ताद्वैतवादी शब्दाद्वैतवादी उच्यते । यथा - एवं भावाद्वैतमते प्रपञ्चभावादेः

सत्यत्वेऽपि तदावश्यकम् (अ० सि० अनु० तर्क नि० ल० च०) । यथा च - अत

एव घटादिकं सद्रूपे कल्पितम् (तत्रैव परि० हेतुविचारे) । यथा च - भावाद्वैतं

क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः (भाग०

७।१५।६२) । कार्यकारणवस्त्वैक्यमर्षणं पटतन्तुवत् । अवस्तुत्वाद् विकल्पस्य

भावाद्वैतं तदुच्यते (तत्रैव ६३) ।
 
-
 

 
भूतम्, भूत
१ . यत् सदा एकरूपेण तिष्ठेत् तत् सत्यमिति ब्रह्मेति । यथा - "भूतं

सत्यम् । सदेकान्ततः न कदाचिदसदित्यर्थः (ब्र० सू० १/१/१ भाम०) । यथा
 

च - "कर्मकाण्डे भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति"
 
-
 
-
 

(ब्र० सू० १।१।४ शा० भा० ) । यथा च - "यः परिव्राड् मुमुक्षुः सर्वाणि भूतानि

अव्यक्तादीनि स्थावरान्तान्यात्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीति अर्थः

(ई० उ० ६ शा० भा०) । यथा च - "भूतानि सचराचरसंस्थानलक्षणानि" (सं० शा०

३।१८३ अ० टी०) ।२. पदार्थः पञ्च महाभूतादीनि पृथिव्यादीनि । ३. प्राणी

चराचरश्च ।
 

 
भूतग्रामः - , भूतग्राम
भूतानि पृथिव्यादीनि तेषां ग्रामः समुदायः । यथा - "भूतग्रामं

करणसमुदायम्" (गी० १७।६ शा० भा० ) । यथा च - "भूतग्रामं करणसमूहम्"

(तत्रैव नी० क० ) । यथा च "भूतग्रामं देहेन्द्रियसंघाताकारेण परिणतं

पृथिव्यादिभूतसमुदायम्"(तत्रैव म० सू०) । यथा च - "भूतग्रामं करणसमुदायरूपेण

परिणतम्" (तत्रैव भाष्यो०) । यथा च - "देहे स्थितं भूतानां पृथिव्यादीनां ग्रामं

समूहम्" (तत्रैव श्रीधरी) ।
 

 
भूतयोनिः- , भूतयोनि
भूतानां प्राणिनां सकलचराचराणां योनिः कारणं निमित्तं ब्रह्मेति ।

इत्यद्वैतवेदान्तिनः । प्रधानमिति सांख्ययोगविदः । ईश्वर इति न्यायवैशेषिकाः । यथा -

योयमदृश्यत्वादिगुणको भूतयोनिः स

"प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः ।.....
 
-
 

परमेश्वर एव स्यान्नान्य इति" (ब्र० सू० १ । २ । २१ शा० भा० ) । यथा च - "अथ

योनिशब्दो निमित्तकारणपरः, तथापि ब्रह्मैव निमित्तं, न तु जीवात्मेति विनिगमनायां न
 
!
 
-