This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
तन्त्रज्ञा आहुः । १७. मध्वमतानुयायिवेदान्तिनस्तु प्रथमप्रतीतौ यः अस्ति इति प्रतीति-

विषयः स भावः इत्याहुः (प्र० च० परि० २ पृ० ४८) (न्यायकोशः) ।
 

 
भावपदार्थः - , भावपदार्थ
भावः सत्ता । स च एक एव परब्रह्मरूपः । शास्त्रे लोके च

त्रयो भावाः तिस्रो वा सत्ताः । पारमार्थिकी सत्ता (भाव:) प्रातिभासिकी सत्ता (भाव:)

व्यावहारिकी सत्ता (भाव:) सच्चिदानन्दशब्दगतस्य सत् इति शब्दस्य प्रतीति-

विषयीभूतं यत्तद् ब्रह्मैव भावपदार्थः । यो हि सदा नित्यः । यथा अद्वैतसिद्धौ परिच्छिन्नत्व-

हेतुविचारे श्रीमधुसूदनसरस्वतीभिरुक्तम्- अत एव घटादिकं सद्रूपे कल्पितम् ।

प्रत्येकं तदनुविद्धत्वेन प्रतीयमानत्वात् प्रत्येकं चन्द्रानुविद्धजलतरङ्गचन्द्रवदिति

ब्रह्मसिद्धिकारोक्तमपि साधु । भाव एव सत्पदार्थः । एक एव भावपदार्थो ब्रह्म । अतो

भावाद्वैतमप्युच्यते । यथा- भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन्

स्वानुभूत्येह त्रीन् स्वप्रान् धुनुते मुनिः (भाग० ७/१५ ।३२) । लोके जागरिते स्वप्ने

च भावाभावपदार्थः ।
 
-
 

 
भावविकाराः - , भावविकाराः
भवतीति भावः । स च षड्विधः - जायते अस्तीत्यादि । यथा-

"जायतेऽस्ति वर्धते परिणमतेऽपक्षीयते नश्यति" इति यास्कोक्तान् षड्भावविकारानात्मनि

निराकुर्वन् तस्याविक्रियत्वं साधयति-नेति । कदाचित्पदं सर्वविक्रियाप्रतिषेधैः पदैः

सम्बन्धनीयम् । न कदाचिज्जायते यतोऽभयमात्मा न भूत्वा भूयः पुनः भविता न,

यस्माच्च भूत्वा भवनक्रियामनुभूय भूयो न भविताऽभावं गन्ता वा न, तस्मान्न

कंदाचिन्प्रियते च । वा शब्दश्चार्थे । यद्वा 'अयं ना पुरुषो भूत्वा पुनर्भविता न अस्ति,

विक्रियायोग्यो न भवतीत्यर्थ: (गी० ३।२० भावोत्कर्षटी०) ।
 
-
 

 
भावना , भावना
तथानुचिन्तनम् । आत्मभावनाभिनिवेशः ध्यानं च। यथा - "न

चास्त्ययुक्तस्य भावनात्मज्ञानाभिनिवेशस्तथा न चास्य भावयत आत्मज्ञानाभिनिवेशं

कुर्वतः शान्तिरुपशमो न विद्यते, अशान्तस्य कुतः सुखम्" (गी० २।६६ आ० टी०) ।

यथा च - न चायुक्तस्य भावना ध्यानम् (तत्रैव श्रीधरी) ।
 

 
भावार्थः - , भावार्थ
भावो व्यापारस्तदर्थाः शब्दाः यजत्यादिधातवः । एतेभ्यो धातुभ्यः

अपूर्वस्य ज्ञानं जायते । यथा- भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत इति ।

द्रव्यगुणशब्दानां नैमितिकावस्थायां कार्यावमर्शेऽपि भावस्य स्वतः, द्रव्यगुणशब्दानां तु

भावयोगात्कार्यावमर्श इति भावार्थेभ्य एवापूर्वावगतिर्न द्रव्यगुणशब्देभ्य इति भावार्थेभ्य

एवांपूर्वावगतिर्न द्रव्यगुणशब्देभ्य इति । (ब्र० सू० १।१।४ भाम०) । यथा च -