This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
३२५
 
जीवान्प्रति सङ्गच्छमानानि यानि वामानि तानि येन हेतुना सङ्गच्छन्ते स संयवामः

(तत्रैव वे० क० त० ) । वन सम्भक्ताविति धातोरौणादिकप्रत्ययान्ततया निष्पन्नो
i

वामशब्दः सम्भजनीयवाची शोभनेषु पुण्यफलेषु
पर्यवस्यतीति भावः । (तत्रैव
वे० क० त० प०) ।
 
पर्यवस्यतीति

 
भावः । (तत्रैव
 
...
 
तेन
 
-
 
-
 
भावः -
, भाव
१. सत्ता, नित्यपदार्थः । मण्डनमिश्रादीनां भावाद्वैतः

इत्यद्वैतिमतार्थं भावाद्वैतशब्दो द्रष्टव्यः । बुद्ध्यादिः । यथा - "भवन्ति भावाः बुद्ध्यादयो

भूतानां प्राणिनामत्र एवेश्वरात्पृथविधा नानाविधाः स्वकर्मानुरूपेण (गी० १०/५

शा० भा०) । यथा च - "एते बुद्ध्यादयो भावाः कार्यविशेषाः सकारणकाः पृथग्विधा

धर्माधर्मादिसाधनवैचित्र्येण नानाविधाभूतानां सर्वेषां प्राणिनां मत्तः परमेश्वरादेव

भवन्ति नान्यस्मात् (तत्रैव म० सू० ) । यथा च - एते यथोक्ता भावाः पृथग्विधा

नानाप्रकारभूतानां स्वकर्मानुसारेण मत्त एवेश्वराद् भवन्ति (तत्रैव भाष्यो०) । यथा च -

१. अन्यनिगूढ़ेच्छा (प्रशस्त० २ पृ० ३३) । २. सत्ता (सामान्यम्) यथा-

द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः (वै० ७।२।२७) । इत्यादौ । ३. द्रव्यादिषट्कम्

(मु० १ पृ० १९) । तल्लक्षणं च भावत्वमेव । तच्चात्र समवाय एकार्थसमवाय

एतदन्यतरसम्बन्धेन सत्तावत्त्वम् (दि० १ पदार्थ नि० पृ० २०) । ४. नव्यास्तु इतरा-

विशेषणतया क्रियाबोधपरत्वम् । यथा कृष्णेन स्थीयत इत्यादौ आत्मनेपदविधायके

भावकर्मणोः (पा० सू० १ । ३ । १३) इति पाणिनिसूत्रे भावपदार्थ इत्याहुः (ग० व्यु०

आख्यातार्थनि० पृ० १२९) । ५. धातुवाच्या क्रिया यथा भावप्रधानमाख्यातम्

(यास्कनिरुक्तम्) । इत्यादौ । ६. सिद्धावस्थापन्नो धात्वर्थो भाव इति वैयाकरणा

आहुः । ७. धर्मादयोऽष्टौ भावाः इति सांख्या आहुः । धर्मादयस्तु भावैरधिवासितं

लिङ्गम् (सांख्य का० ४०) । इत्यादौ धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणि

भावाः (सांख्या० कौ० का० ४०-४५) । इत्युक्ताः । ८. प्रकृतिजन्यबोधप्रकारः

असाधारणधर्मो भावः । यथा घटस्य भावो घटत्वमित्यादौ इति सर्वशास्त्रकारा

आहुः । प्रकृतिजन्यबोधे येन सम्बन्धेन तत्प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन

सम्बन्धेन तदितरावृत्तित्वे सति तद्वृत्तिर्धर्मः इति (भवानन्दी०) । अत्र तस्य

भावस्त्वविहितः इति ज्ञेयम् । ९. वासना संस्कारश्च इति मीमांसकाः प्रवदन्ति ।

१०. भक्तिरपीति सर्वे वेदान्तिनो वदन्ति ।११. नाट्योक्तनानापदार्थचिन्तकः पण्डितः

इति नाटकज्ञा ब्रूवते । १२. अभिप्रायोऽपीति काव्यज्ञा संजगदुः । १३. अलङ्कारविशेषः

इत्यालङ्कारिका आहुः । १४. जन्म इति पौराणिकाः संवदन्ते । १५. ग्रहाणां द्वादश-

विधचेष्टाविशेषः इति ज्योतिर्विद आहुः । १६. दिव्यवीरपशुभेदेन त्रिविधो भाव इति
 
-