2023-03-12 05:01:30 by ambuda-bot
This page has not been fully proofread.
३२४
शावेदान्तकोशः
२. गौण्या वृत्त्या बोधितोऽर्थः (औपचारिकः) । ३. भक्तमन्नम्, तत्सम्बन्धि
भाक्तमिति काव्यज्ञा आहुः । (न्या० को०)
-
भागलक्षणा - भागे एकस्मिन् भागे लक्षणा भागलक्षणा । इयं जघ्दजहल्ल-
क्षणाप्युच्यते । यथा- यथा तत्रैव वाक्ये सशब्दाऽयंशब्दयोस्तदर्थयोर्वा विरुद्ध-
तत्कालैतत्कालविशिष्टत्वपरित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावः । तथात्रापि
वाक्ये तत्त्वंपदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्वपरित्यागेना-
विरुद्धचैतन्येन सह लक्ष्यलंक्षणभावः । इयमेव भागलक्षणेत्युच्यते (वे० सा०) । अधिकं
तु लक्षणाशब्दे द्रष्टव्यम् ।
भागवतः - विष्णुभक्ता ये प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वर-
मभिमन्यन्ते । एतेषां सिद्धान्तो यथा शाङ्करभाष्ये उक्तः - तत्र भागवता मन्यन्ते
भगवानेवैको वासुदेवो निरज्जनज्ञानस्वरूपः परमार्थतत्त्वं स चतुर्धात्मानं प्रविभज्य
प्रतिष्ठितो वासुदेवव्यूहरूपेण सङ्घर्षणव्यूहरूपेण प्रधूम्नव्यूहरूपेणानिरुद्धव्यूहरूपेण
च । वासुदेवो नाम परमात्मोच्यते । सङ्कर्षणो नाम जीवः । प्रद्युम्नो नाम मनः ।
अनिरुद्धो नामाहङ्कारः । तेषां वासुदेवः परा प्रकृतिरितरे सङ्घर्षणादयः कार्यम्, तमित्थं
भूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्टा क्षीणक्लेशो
भगवन्तमेव प्रतिपद्यत इति । तत्र यत्तावदुच्यते योऽसौ नारायणः परोऽव्यक्तात्
प्रसिद्धः परमात्मा सर्वात्मा आत्मनात्मानमनेकधा व्यूह्यावस्थित इति तत्र
निराक्रियते । स एकधा भवति त्रिधा भवति छा० - ७।२६।२ - इत्यादिश्रुतिभ्यः
परमात्मनोऽनेकधाभावस्याधिगतत्वात् । अत्र ब्रूमः न वासुदेवात्
जीवस्योत्पत्तिः (ब्र० सू० २ ।३।४२ शा० भा० ) ।
-
भानम् - १. प्रतीतिः । यथा - उपनीतभानमित्यादौ । २. ज्ञानम् । ३. प्रकाशः ।
४. दीप्तिः ।
-
भामनीः - लोकनियन्ता परमात्मा । यथा- "संयन्ति सङ्गच्छमानानि
वामा॒न्यनेनेति संयद्वामः परमात्मा स एव पुण्यफलानि वामानि नयति लोकमिति
वामनीः । एष एव भामनीः । भामानि भानानि नयति लोकमिति भामनी: (ब्र० सू०
१ । २ । १३ भाम०) । यथा च - "एवं संयवाम इत्याचक्षते एतं हि सर्वाणि वामान्यभि-
संयन्तीति श्रुतिमीश्वरस्य फलभोक्तृत्वभ्रमव्यावर्त्तनेन व्याचष्टे वननीयानिति ।