2023-03-25 07:01:31 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
च- "व्याघ्रादिदर्शननिबन्धनस्त्रासः" (तत्रैव भाष्यो०) । यथा च - "भयं त्रासः"
(तत्रैव श्रीधरी) ।
भर्ता, भर्तृ
आत्मा । यथा - "भर्ता भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां
चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यत्स्वरूपधारणं तच्चैतन्यात्म-
कृतमेवेति भर्तात्मेत्युच्यते" (गी० १३/२२ शा० भा० ) । यथा च - "भर्ता देहेन्द्रिय-
मनोबुद्धीनां संहतानां चैतन्याभासविशिष्टानां स्वसत्तया स्फुरणेन च धारयिता
पोषयिता च (तत्रैव म० सू०) । यथा च - "तथा ऐश्वरेण रूपेण भर्ता विधारक इति
चोक्तः (तत्रैव श्रीधरी) ।
भव्यः, भव्य
१. (क) भवितुं योग्यः धर्मः । न तु भव्यं ब्रह्म । यथा - भव्यश्च धर्मो
जिज्ञास्यो न ज्ञानकालेऽस्ति पुरुषव्यापारतन्त्रत्वात् (ब्र० सू० १/१/१ शा० भा०) ।
यथा च –"भव्यश्च धर्म इति । भविता भव्यः कर्तरि कृत्यः (तत्रैव भाम०) । यथा
च -"कर्मकाण्डे भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति" (ब्र०
सू० १ । १।४ शा० भा०) ।२." प्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण भूतं चेद् वस्तूप -
दिशति भव्यार्थत्वेन" (ब्र० सू० १ १ ४ शा० भा०) । यथा च - "भव्यं कार्यम्"
(तत्रैव भाम० ) ।
भस्म, भस्मन्
त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् । विरजानलजं चैव धायें भस्म
महामुने । औपासनसमुत्पन्नं गृहस्थानां विशेषतः । समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा ।
शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् (देवीभाग० उ० ११ स्क० १० अ० ३-५
श्लो०) । अस्य शरीरस्य अन्तिमा स्थितिर्भस्म । पावनत्वेन तु भस्म धार्यमेव । किन्तु
जगतो नश्वरत्वबोधनाय नश्वरत्वस्मरणाय चापि भस्म सदा धार्यम् । यथा-
वायुरनिलममृतमथेदं भस्मान्त शरीरम् । ॐ क्रतो स्मर कृत स्मर क्रतो स्मर
कृत स्मर (ई० उ० १७) ।
भाक्त:, भक्त
भक्त्या लक्षणया युक्तः शब्दः भाक्तः लाक्षणिकः । यथा - तत्त्वमसि
इत्यादौ । इत्यद्वैतवेदान्तिनः । १. लाक्षणिकः शब्दः गौण इत्यर्थः । यथा- सिंहो
माणवक इत्यादौ सिंहशब्दः । अत्र सिंहपदस्य सिंहसदृशे लक्षणा । सादृश्यं च शौर्यादीनाम्
इति नैयायिका आहुः । तथा च सिंहवृत्तिगुणसदृशगुणवान्माणवकः इति शाब्दबोधः ।
शाब्दिकास्तु सिंहपदस्य सिंह एवार्थ: माणवके च सिंहवृत्तिशौर्यक्रौर्यादयो गुणा
आरोप्यन्ते इत्याहुः। तथा चैतन्मते सिंहवृत्त्यारोपितगुणवान्माणवकः इति बोधः।