2023-03-12 05:01:29 by ambuda-bot
This page has not been fully proofread.
●
शाङ्करवेदान्तकोशः
सूर्यांशुसाम्यभाक् । रुचिभिश्चित्रमासृण्यकृदसौ भाव उच्यते । इति । प्रेमभक्तिर्यथा -
सम्यङ्मसृणितस्वान्तो ममतातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा
निगद्यते । इति (भक्तिरसामृतसिन्धौ पूर्वभागः) । अत्रोच्यते - अनन्यसमता विष्णौ
ममता प्रेमसङ्गता । भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः । इति नारदपञ्चरात्रे ।
भक्तिरपि ब्रह्मविद्यायामधिकारे उपयुज्यते । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा
विवृणुते तनूं स्वाम् (कठोप० २/२२) (मध्वमा० १ ।१।१ उपोद्धा० ) इति । ३. रचना ।
यथा भवति विरलभक्तिर्लानपुष्पोपहारः (रघु० स० ५ श्लो० ७४) । इत्यादौ । ४. भागः
इति काव्यज्ञा आहुः । ५. विभागः इति व्यवहारज्ञा वदन्ति । ६. भङ्गी इत्यालङ्कारिका
आहुः (न्या० को०) ।
३२२
-
भगवान्- ऐश्वर्यादिषड्विधभगयुक्तः परमात्मा । यथा च - ऐश्वर्यस्य समग्रस्य
धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना । अपरं च-
"ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा" (वि० पु० अंश: २) । समग्रस्येति प्रत्येकं
सम्बन्धः । मोक्षस्येति तत्साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं
नित्यमप्रतिबन्धनेन यत्र वर्तते स भगवान् । नित्ययोगे मतुप् । तथा उत्पत्तिं च विनाशं
च भूतानामगतिं गतिम् । वेत्ति विद्यामविद्यांच स वाच्यो भगवानिति । तथा भूतानामिति
प्रत्येकं सम्बध्यते उत्पत्तिविनाशशब्दौ तत्कारणस्याप्युपलक्षकौ । आगतिगती आगमिन्यौ
सम्पदापदौ । एतादृशो भगवच्छब्दार्थः श्रीवासुदेव एव पर्यवसित इति तथोच्यते (गी०
३ । ३ म० सू०) । यथा च - ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ
मोक्षस्य षण्णां भग इतीङ्गना । ऐश्वर्यादिषट्कं यस्मिन् वासुदेवे नित्यमप्रतिबन्धत्वेन
सामस्त्येन च वर्तते । 'उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च
स वाच्यो भगवानिति' । उत्पत्त्यादिविषयं च विज्ञानं यस्य स वासुदेवो वाच्यो भगवानिति'
(गी० ३।३७ शा० भा०) । परं ब्रह्मैव विशेषस्थितौ भगवानित्युच्यते । यथा - वदन्ति
तत् तत्त्वविदस्तत्त्वं यद् ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवनिति शब्दयते ( भाग०
१ ।२।११ ) । यथा च - तत्रैव भागवते - सर्वे चांशकलाः प्रोक्ताः कृष्णस्तु भगवान्
स्वयमिति (भाग० १।३।२८ ) ।
-
"
-
-
-
भयम् - त्रासः आत्मोच्छेदशङ्केति यावत् । यथा - "भयं त्रासः" । (गी० अ०
श्लो० १५ शा० भा०) यथा च - भयमात्मोच्छेदशङ्का च (तत्रैव नी० क०) । यथा
च - "भयं व्याघ्रादिदर्शनाधीश्चित्तवृत्तिविशेषस्त्रासः" । (तत्रैव म० सू०) । यथा