This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
३२१
 
१. (क) गौणीशब्दवदस्यार्थोऽनुसन्धेयः । यथा ततो भक्त्या दश दिशः सिद्धाः
(प्रशस्तदिनिरूपणे पृ० ८) इत्यादौ । (ख) भक्तिर्नाम लक्षणावृत्तिः । (जै० सू० वृ०
३ । २ । ४३ ) । इयं भक्तिस्तु गौणत्वम् उपचारश्च इति व्यवह्नियत इति वदन्ति । (ग)
प्रकर्षभावाभावः । यथा बिल्वामलकादावणुत्वव्यवहारः समिदिक्षुदण्डादिषु च ह्रस्वत्व-
व्यवहारो भाक्तः इत्यादौ आमलके यः प्रकर्षभावस्तस्याभावः कुबले । बिल्वे यः
प्रकर्षभावस्तस्याभाव आमलके । स च गौणमुख्योभयभागित्वाद् भक्तिपदवाच्यः
(वै० उ० ७।१।८) । २. (क) आराध्यत्वप्रकारकं ज्ञानम् (कि० व० पृ० ४) (म०
प्र० १ पृ० १६) (श० प्र० श्लो० ७२ टी० पृ० ९५) (त० प्र० १ पृ० ६)
(सि० च०) । यथा भक्त्या हरिमुपास्ते इत्यादौ । यथा वा भक्तिर्ज्ञानाय कल्पते इत्यादौ ।
(ख) निरतिशयानन्दप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यवज्ज्ञानं विशेषो भक्तिः इति
रामानुजीया आहुः (सर्व० पृ० १२३ रामा०) । परे तु सा परानुरक्तिरीश्वरे (शाण्डि०
सू० १।१ ) । यथा - रसं ह्येवायं लब्ध्वानन्दी भवति (तैत्ति० उ० २।७।१) । इत्यादौ
रसो भक्तिः । यथा वा ब्रह्मसंस्थोऽमृतत्वमेति (छान्दो० २।२३।१ ) । इत्यादौ संस्थापदवाच्या
भक्तिः इत्याहु: (शाण्डि० सू० टी० २(२) । अत्र रसशब्दवाच्यं संस्थाशब्दवाच्यं च
भगवदपरोक्षज्ञानमेव इति वयं जानीमः । भक्तेर्लक्षणं च आराध्यविषयकरागित्वम् ।
भक्ते रागरूपत्वे प्रयोगः भक्तिर्भजनीयगोचररागरूपा तदनुवर्तनादिहेतुहितसाधनता-
धीभिन्नात्मविशेषगुणत्वात् यन्नैवं तन्नैवं यथा द्वेषः इति (शाण्डि० सू० टी०) । अत्र
वल्लभीया वदन्ति । इयं भक्तिद्विविधा - साधनीभूता फलीभूता च । तत्र साधनभूता
भक्तिर्ज्ञानाय कल्पते ।वासुदेवे भगवति भक्तियोगःप्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं
च यदहैतुकम् । इत्यादौ । फलभूता तु स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।
अहैतुक्यव्यवहिता ययात्मा सम्प्रसीदति" (भा० १।२।६-७)। ब्रह्मसंस्थोऽमृतत्वमेति
इत्यादौ इति । सुखानुशयो रागः (पात० सू० २।७) । भक्तिः इति शाण्डिल्यसूत्र-
टीकाकृत आहुः । जीवोपाध्यनवच्छिन्नचेतनविषयिण्यनुरक्तिरेव भक्तिः इत्यप्यन्य
आहुः(शाण्डि० सू० टी०) । माहाल्यज्ञानपूर्वः सुदृढ़ः स्नेहो भक्तिः इति पञ्चरात्रागमकुशलाः
इति भक्तिस्त्रिविधा । सा (उत्तमा) भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता इति ।
तत्र साधनभक्तिर्यथा कृतिसाध्या भवेत्साध्यभावा सा साधनाभिधा । नित्यसिद्धस्य
भावस्य प्राकट्यं हृदि साध्यता । इति । भावभक्तिर्यथा शुद्धसत्त्वविशेषात्मा प्रेमा