This page has been fully proofread once and needs a second look.

३२०
 
शाङ्करवेदान्तकोशः
 
L
 
च- "ब्राह्मणोऽपि मुखादेव जज्ञे प्रजापतेः । तस्मादेकयोनित्वाज्ज्येष्ठेनेवानुजोऽनु-

गृह्यते अग्निना ब्राह्मणः । तस्माद् ब्राह्मणोऽग्निदैवत्यो मुखवीर्यं च श्रुतिस्मृतिसिद्धम्

(बृ० उ० १/४/६ शा० भा० ) । अत एव प्रसिद्धमस्ति- वाचिवीर्यं द्विजानाम् ।

यथा च य एतदक्षरं गार्गि विदित्वास्माल्लोकात् प्रैति स ब्राह्मणः (बृ०

उ० ३।८ । ९) । ३. अत्रार्थे व्युत्पत्तिः ब्रह्म वेदं परब्रह्म वा वेत्त्यधीते वा

इति ।ब्राह्मणलक्षणं च विशुद्धमातापितृजन्यत्वम् । अत्र विशुद्धत्वं च षट्कर्माधिकारवत्त्वम्

(त० कौ० पृ० २१) । तस्य स्वरूपं यथा जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च

एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यते (बह्निपुराणे) । (वाच०) इति । वशिष्ठेनोक्तं

ब्राह्मणस्वरूपम्, यथा– योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्याविज्ञान-

मास्तिक्यमेतद् ब्राह्मणलक्षणम् । इति । ब्राह्मणगुणप्रयुक्तं फलमाह - सर्वत्र दान्ताः श्रुत-

पूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः । प्रतिग्रहे सङ्कुचिताग्रहास्ते ब्राह्मणास्तारयितुं

समर्थाः । इति ( न्या० को०) ।
 
-
 
-
 

 
ब्राह्मी - , ब्राह्मिन्
ब्रह्मरूपेऽवस्थानम् । यथा - "एषा यथोक्ता ब्राह्मी ब्रह्मणि भवेयं स्थितिः

सर्वकर्म संन्यस्य ब्रह्मरूपैणैवावस्थानमित्येतत्" (गी० २।७२ शा० भा०) यथा च -

एषा स्थितप्रज्ञलक्षणसंगात् कथिता ब्राह्मी । ब्रह्मशब्देनात्र ब्रह्मविदुच्यते । 'ब्रह्मविद्

ब्रह्मैव भवति' इति श्रुतेः । 'तस्येयं ब्राह्मी स्थितिर्निष्ठा....' (तत्रैव नी० क०) । यथा

च - ब्रह्मणि भवा स्थितिः । सर्वं परित्यज्य ब्रह्मरूपेणैवावस्थानमिति यावत् (तत्रैव

भाष्यो०)। यथा च - ब्राह्मी ब्रह्मविषया (तत्रैव म० सू० ) ।
 
-
 

 
भक्तिः - , भक्ति
तैलधारावन्निरवच्छिन्ना सततं भगवदनुस्मृतिः भक्तिः (गी० ९/३४

रङ्गरामानुजभाष्ये) । यथा - समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् (गी० १८/५४) ।

अत्र श्रीधर्याम्- मद्भावनालक्षणां मद्भक्तिं लभते । यथा च सगुणोपासनमपि ....

चित्तैकाग्र्यद्वारा निर्विशेषब्रह्मसाक्षात्कारे हेतुः (वे० प० ८ प०) ।
 
-
 
-
 

इयम् उपासना प्रसंख्यानशब्देनाप्यद्वैतिभिर्व्यवह्रियते । यथा - अभ्यासो हि

संस्कारं द्रढयन् (ब्रह्मसिद्धौ २ का०) । अत्र शङ्खपाणिव्याख्यायाम् - तत्राभ्यासस्य

उपासनापर्यायस्य । यथा च - आवृत्तिर्हि प्रसंख्यानं शब्दयुक्त्योरिति स्थितम् (बृ० आ०

भाष्यवा० ८०३) । अत्र आनन्दगिरिराह - श्रवणमननयोरावृत्तिस्त्वया प्रसंख्यानमभिप्रेतम् ।

यथा च - प्रसंख्यानस्य चित्तैकण्यरूपस्य (नै० सि० ३।८९ च० टी०) । यथा च -

प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वयव्यतिरेकयुक्तिविषयबुद्ध्याम्रेडनमभिधीयते

(नै० सि० ३।९० च० टी०) । भक्तिशास्त्रे तु ईश्वरे परानुरक्तिः भक्तिः (शाण्डिल्यसू०)

सा च नवधा श्रवणकीर्तनेत्यादिरूपा ।