This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
३१९
 
स्तदेवात्यन्तं सर्वोत्तमं सुखमश्नुते" (तत्रैव श्रीधरी) । (ख) अहं ब्रह्म इति ज्ञानम् ।

यथा च – "अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् । अहं ब्रह्मेति चेद् वेद साक्षात्कारः

स उच्यते (प० द० ६।१६) ।
 
-
 

 
ब्रह्मसूत्रपदम्, ब्रह्मसूत्रपद
ब्रह्मणस्तटस्थलक्षणस्य तथा स्वरूपलक्षणस्य ज्ञापकम् । यथा-

"किञ्च ब्रह्मसूत्रपदैश्चैव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि वै पद्यते गम्यते ज्ञायते

ब्रह्मेति तानि पदान्युच्यन्ते (गी० १३ । ४ शा० भा०) । यथा च - "ब्रह्मसूत्रपदैः ब्रह्मणः

सूचकानि पदानि समुच्चित्य वाक्यभावमापन्नानि तैर्ब्रह्मसूचकैर्ब्राह्मणवाक्यैः ।

तत्तत्वमसीत्याद्यैरित्यर्थः (तत्रैव नी० क० ) । यथा च - ब्रह्मसूत्रपदैश्चैव ब्रह्म सूत्र्यते

सूच्यते किञ्चिदव्यवधानेन प्रतिपाद्यत एभिरिति ब्रह्मसूत्राणि ।"यतो वा इमानि भूतानि

जायन्ते । येन जातानि जीवन्ति । यत्प्रयल्यभिसंविशन्ति" इत्यादीनि तटस्थलक्षण-

पराण्युपनिषद्वाक्यानि । तथा पद्यते ब्रह्म साक्षात् प्रतिपाद्यत एभिरिति पदानि

स्वरूपलक्षणपराणि "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादीनि तैर्ब्रह्मसूत्रैः पदैश्च हेतुमद्भिः

"सदेव सोम्येदमग्रमासीदेकमेवाद्वितीयम् इत्युपक्रम्य तद्ध्यैक आहुरसदेवेदमग्र

आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत इति नास्तिकमतमुपन्यस्य कुतस्तु सौम्येवं

स्यादिति होवाच कथमसतः सज्जायते इत्यादियुक्तीः प्रतिपादयभिः (तत्रैव म० सू०) ।

यथा च– "ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तै पद्यते ज्ञायते ब्रह्मेति तानि

पदानि उच्यन्ते तैः (तत्रैव भाष्यो०) यथा च - "ब्रह्मणः सूत्रैः पदैश्च । ब्रह्म सूत्र्यते

सूच्यत एभिरिति ब्रह्मसूत्राणि "यतो वा इमानि भूतानि जायन्ते" इत्यादीनि

तटस्थलक्षणपराणि उपनिषवाक्यानि, तथा ब्रह्म पद्यते गम्यते साक्षात् ज्ञायत एभिरिति

पदानि स्वरूपलक्षणपराणि 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादीनि तैश्च बहुधा गीतम्

(तत्रैव श्रीधरी) ।
 

 
ब्रह्मस्वरूपम्, ब्रह्मस्वरूप
ब्रह्मतटस्थलक्षणं तथा ब्रह्मलक्षणमिति शब्दद्वयं द्रष्टव्यम् ।
 
-
 

 
ब्राह्मणः- , ब्राह्मण
१. ब्रह्मवित् । यथा- एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति

स ब्राह्मण: (बृ० उ० ३।८।९) ।२. ब्रह्मणोऽपत्यं ब्राह्मणस्यापत्यं वा पुमान् ब्राह्मणः ।

स च पराशरस्मृत्यनुसारं राक्षसब्राह्मणासुरब्राह्मणाद्यनेकभेदभाक् । ३. साक्षात्कृतब्रह्म

ब्रह्मसाक्षात्कर्त्ता वा ।यथा –"अमौनं मौनं च निर्विद्याथ ब्राह्मणः" (बृ० आ० ३।५।१) ।

यथा च ब्रह्माहम् इत्यवगच्छतीति ब्राह्मणः साक्षात्कृतब्रह्म भवति इत्यर्थः

(ब्र० सू० ३।४।४७ क० त०) । यथा च – "यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।

न सुवृत्तं न दुर्वृत्तं वेद कश्चित् स ब्राह्मणः" (तत्रैव ३।४।५० शा० भा०) । यथा