This page has not been fully proofread.

३१८
 
शाङ्कवेदान्तकोशः
 
निषेवितं शासनि नायकस्य (सद्धर्मपुण्डरीके ४ परि० ५२ श्लो०)। अतो
ब्रह्मणि आत्मरूपे विज्ञाने चित्ते वा विहारः अवस्थितिरिति ब्रह्मविहारशब्दार्थः ।
यथा च ब्रह्मविहाराश्चत्वारः संग्रहा ये च कीर्तिता ( स० धo पुण्ड०
५ परि ७८ श्लो०) ।
 
-
 
ब्रह्मा विष्णुमहेश्वरः - मायावच्छिन्नं चैतन्यं परमेश्वरः मायाया विशेषणत्वे
ईश्वरत्वमुपाधित्वे साक्षित्वमिति ईश्वरत्वसाक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वर-
तत्साक्षिणोः स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन
ब्रह्मविष्णुमहेश्वर इत्यादिशब्दवाच्यतां लभते (वे० प० १ प०)।
 
-
 
ब्रह्मसंस्थः- ब्रह्मज्ञः, ब्रह्मनिष्ठः । यथा - न च सम्भवत्यवयवार्थे समुदाय -
शक्तिकल्पना । तस्माद् ब्रह्मणि संस्थाऽस्येति ब्रह्मसंस्थः । एवञ्च चतुर्षु आश्रमेषु
यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थोऽमृतत्वमेति इति युक्तम् (ब्र०
सू० ३ । ४ । २० भाम०) । यथा च - एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारणः ।
आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च । भिक्षुस्तत्संस्थ इत्येव (तत्रैव भाम० ) ।
यथा च - ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति (गी० १८/५४)। अत्र
श्रीधर्याम्- ब्रह्मभूतो ब्रह्मण्यवस्थितः प्रसन्नचित्तो नष्टं न शोचति । यथा च - ग्रहो
न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजातिसमतां
गतम् (मा० का० ३।३८ ) । आत्मसंस्थं ब्रह्मसंस्थमित्यर्थः । ब्रह्माहमित्येवं
नैश्चल्येनावस्थानमिति भावः (तत्रैव शा० भा० ) । यथा च ब्रह्मसंस्थोऽमृतत्वमेति
(छा० २।२३।१) । पुण्यलोकफलास्त्रयो धर्मस्कन्धा ब्रह्मसंस्थता त्वमृतत्वफलमिति
(ब्र० सू० ३/४/२० शा० भा० ) ।
 
-
 
-
 
ब्रह्मसंस्पर्श:- १. (क) ब्रह्मसाक्षात्कारः । यथा - "युञ्जन्नेवं यथोक्तेन क्रमेण
योगी योगान्तरायवर्जितः सदात्मानं युञ्जन् विगतकल्मषो विगतपापः सुखेनानायासेन
ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तद् ब्रह्मसंस्पर्शम् (गी० ६।२८ शा० भा०)।
यथा च - संस्पर्शस्तादात्यैकरस्यम् । उत्कर्षो विषयासंस्पर्श: (तत्रैव आ० गिo) ।
यथा च - स योगी सुखेनानायासेन ब्रह्मणः संस्पर्शोऽविद्यानिवर्तकः साक्षात्कार-