2023-03-12 05:01:28 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
-
-
ब्रह्मलक्षणम् - लक्षणं द्विविधं तटस्थलक्षणं स्वरूपलक्षणं च । तटस्थलक्षणन्तु -
ब्रह्मतटस्थलक्षणमिति शब्दे निरूपितम् । ब्रह्मणः स्वरूपलक्षणमत्रोच्यते । यथा - तत्र
लक्षणं द्विविधं स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् ।
यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् । सत्यं ज्ञानमनन्तं ब्रह्म - तै० २।१।१ - आनन्द
ब्रह्मेति व्यजानात् - तै० ३।६
- इति श्रुतेः । ननु स्वस्य स्ववृत्तित्वाभावे कथं
लक्षणत्वमिति चेत्, न । स्वस्यैव स्वापेक्षया धर्मिधर्मभावकल्पनया लक्ष्यलक्षणसम्भवात् ।
तदुक्तम् - आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः । अपृथक्त्वेऽपि चैतन्यात्
पृथगिवावभासन्ते (वे० प० ७ प० ) ।
-
-
ब्रह्मलोकः - १. हिरण्यगर्भः जीवघनो वा । यथा - स तेजसि सूर्ये सम्पन्नः
स सामभिरुन्नीयते ब्रह्मलोकमिति च तद् विदो देशपरिच्छिन्नस्य फलस्योच्य
मानत्वात् । ....जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे
ब्रह्मलोकसंघातोपपत्तेर्भवति । ब्रह्मलोको जीवघनः (ब्र० सू० १ । ३ । १३ शा० भा० ) ।
यथा च - स सामभिरुन्नीयते ब्रह्मलोकम् इत्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको
वा जीवघनः (तत्रैव भाम०) ।२. ब्रह्मभूतो लोकः । यथा च - परस्मिन् ब्रह्मण्यपरस्मिंश्च
ब्रह्मभूतो ब्रह्मवत् उपास्यो भवतीत्यर्थः (का० उ० २। १७ शा० भा० ) ।
यथा च - ब्रह्मैव लोको ब्रह्मलोकस्तस्मिन् महीयते पूज्यो भवति इत्यर्थः (तत्रैव
शा० भा० गो० टी०) । यथा च - ब्रह्मैव लोक एष सम्राट् इत्यादिषु (ब्र० सू०
४।३।८ शा० भा०) ।
-
-
-
ब्रह्मविद् – सगुणब्रह्मोपासकः । यथा - तत्र तस्मिन् मार्गे प्रयाता मृता गच्छन्ति
ब्रह्म ब्रह्मविदो ब्रह्मोपासनपरा जनाः (गी० ८।२४ शा० भा०) । यथा च - "ब्रह्मविदः
सगुणब्रह्मोपासकाः जनाः" (तत्रैव म० सू० ) ।
-
-
ब्रह्मविद्या - ब्रह्मज्ञानम् । यथा - यदि स एव ब्रह्मशब्दवाच्यस्तद्विद्यैव
ब्रह्मविद्येति ( बृ० आ० २।१।२० शा० भा० ) ।
......
ब्रह्मविहारः - अयं शब्दो बहुधा बौद्धदर्शनग्रन्थेषु व्यवह्रियते । अत्र ब्रह्मशब्दः
आत्मपरः विज्ञानपरश्चित्तपरश्च । यथा - तथापि ब्रह्माध्येषणान् महाकरुणया
धर्मचक्रं प्रवर्तितमिति भावः (अष्टसाहसिकायाम् १५ प० हरिभद्रटीकायाम्) । सर्वे
धर्मा ब्रह्मभूता दोषानुत्पादनतः (अ० सा० २९ प०) । यद् ब्रह्मचर्यं परमं विशुद्धं