This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
भा०) । यथा च - भौतिकानां बाह्यानां मानोरथिकानामान्तराणां च विषयाणां त्यागात्

शान्तरजसं प्रक्षीणमोहादिक्लेशं ब्रह्मभूतं सवस्तुरूपमकल्मषं धर्माधर्मवर्जितम्

(तत्रैव नी० क० ) ।
 
-
 

 
ब्रह्मभूयम्, ब्रह्मभूय
ब्रह्मभावः, मोक्ष इति । यथा - ब्रह्मभूयाय भवनं भूयो ब्रह्मभूयाय

ब्रह्मभवनाय मोक्षाय कल्पते । समर्थो भवतीत्यर्थः (गी० १४ । २६ शा० भा० ) । यथा
 
-
 
-
 

च - ब्रह्मभूयाय ब्रह्मभावाय कल्पते योग्यो भवति (तत्रैव नी० क०) । यथा च

ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवति ( तत्रैव म० सू० ) । यथा च

ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय समर्थो भवति (तत्रैव भाष्यो०) । यथा च - ब्रह्मभूयाय

ब्रह्मभावाय मोक्षाय कल्पते योग्यो भवति (तत्रैव श्रीधरी ) ।
 
-
 
-
 

 
ब्रह्म महद्योनिः, ब्रह्मन् महद्योनि
स्थावरजङ्गमादीनां सर्वेषामुत्पत्तिकारणम् । यथा - सर्वयोनिष्विति ।

देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय मूर्त्तयो देहसंस्थानलक्षणा मूर्तिताङ्गावयवा

मूर्तयः सम्भवन्ति यास्तासां मूर्तीनां ब्रह्म सर्वावस्थं योनिः कारणमहमीशो बीजप्रदो

गर्भाधानस्य कर्त्ता पिता (गी० १४४ शा० भा० ) । यथा च किञ्च सर्वेषु भूतेषु

योनिषु उत्पादनभूतेषु पृथिव्यामोषधय इव या मूर्त्तयः शरीराणि सुरनरतिर्यक्स्थाव-

रात्मकानि चतुर्विधानि सम्भवन्ति तासां मूर्तीनां ब्रह्म महत्पूर्वोक्तं महतो ब्रह्म ब्रह्ममहत् ।

राजदन्तादित्त्वादुपसर्जनस्य परनिपातः । मायैव योनिरित्यर्थः (तत्रैव नी० क० ) । यथा

च- देवपितृमनुष्यपशुमृगादिसर्वयोनिषु या मूर्त्तयो जरायुजाण्डजस्वेदजोद्भिज्जादि-

भेदेन विलक्षणविविधसंस्थानास्तनवः सम्भवन्ति, हे कौन्तेय तासां मूर्तीनां तत्तत्त्कारण-

भावापन्नं महत् ब्रह्मैव योनिर्मातृस्थानीया (तत्रैव म० सू० ) । यथा च - नलक्षणाः

सम्भवन्ति हे कौन्तेय, यथा, तव कुन्ती तथा तासां ब्रह्म महत्-तत्र तत्तदाकारणरूपेणा-

वस्थितं योनि कारणमहमीशो बीजप्रदः गर्भाधानस्य कर्त्ता पिता (तत्रैव भाष्यो०) ।

यथा च - सर्वासु योनिषु मनुष्याद्यासु या मूर्त्तयः स्थावरजङ्गमात्मिका उत्पद्यन्ते तासां

मूर्तीनां महद् ब्रह्म प्रकृतिः योनिर्मातृस्थानीया (तत्रैव श्रीधरी) ।
 
-
 
-
 
-
 

 
ब्रह्मयोगयुक्तात्मा - , ब्रह्मयोगयुक्तात्मन्
समाहितान्तःकरणः । यथा - "स ब्रह्मयोगयुक्तात्मा ब्रह्मणि

योगः समाधिर्ब्रह्मयोगस्तेन ब्रह्मयोगेन युक्तः समाहितस्तस्मिन् व्यापृतः आत्मान्तः-

करणं यस्य स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्नुते प्राप्नोति (गी०५/२१ शा० भा० ) ।

यथा च - यो ब्रह्मयोगे ब्रह्मणि योगः समाधिस्तत्र युक्तो योजित आत्मा बुद्धिर्येन स

ब्रह्मयोगयुक्तात्मा (तत्रैव नी० क०) । यथा च - स चोपशमात्मकं सुखं लब्ध्वा ब्रह्मणि

योगेन समाधिना युक्तस्तदैक्यं प्राप्त आत्मा यस्य सोऽक्षय्यं सुखमश्नुते प्राप्नोति

(तत्रैव श्रीधरी) ।
 
-
 
-