This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
....
 
घटादिषु गन्धाभावात् । प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् । अत्र जगत्पदेन

कार्यजातं विवक्षितम् । कारणत्वं च कर्तृत्वमतोऽविद्यादौ नातिव्याप्तिः । ज्ञानेच्छा-

कृतीनां मध्येऽन्यतमगर्भलक्षणत्रितयमिदं विवक्षितम् । अन्यथा व्यर्थविशेषणत्वापत्तेः ।

अत एव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः । एवञ्च प्रकृते लक्षणानि

नव सम्पद्यन्ते । ब्रह्मणो जन्मादिकारणत्वे च यतो वा इमानि भूतानि जायन्ते येन

जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति ( तै० उ० ३।१ ) । इत्यादिश्रुतिर्मानम्

(वे० प० ७ प०) ।
 

ब्रह्मणो नव तटस्थलक्षणानि - १. जत्रज्जन्योपादानगोचरापरोक्षज्ञानम् ।

२. तज्जन्मगोचरचिकीर्षा । ३. तज्जन्मानुकूलकृतिः । ४ स्थित्युपादानविषयकज्ञानम् ।

५. स्थितीच्छा ।६. स्थितिप्रयलः । ७. प्रलयोपादानम् ।८. प्रलयेच्छा ।९. प्रलयप्रयलः ।

यद्वा निखिलजगदुपादनत्वं ब्रह्मणो लक्षणम् । (वे० प० ७ प०)
 
-
 

 
ब्रह्मनिर्वाणम् - , ब्रह्मनिर्वाण
मोक्षः । यथा- किं च कामक्रोधवियुक्तानां कामश्च

क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्त:-

करणानामभित उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो वर्त्तते (गी०

५।२६ शा० भा० ) ।
 
-
 
-
 

 
ब्रह्मपुरम्, ब्रह्मपुर
जीवः । यथा - कुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम् ।

तथा ब्रह्मपुरमिति किं जीवोऽत्र ब्रह्मनामा तस्येदं पुरं शरीरं ब्रह्मपुरमथवा परस्यैव

ब्रह्मण पुरं ब्रह्मपुरमिति । ....तस्य च दहरायतनापेक्षया दहरत्वम् । यावान्वा

आकाशस्तावानेषोऽन्तर्हदय आकाश: इति

इति च बाह्याभ्यन्तरभावकृतभेदस्योप-

मानोपमेयभावः । द्यावापृथिव्यादि च तस्मिन्नतः समाहितमवकाशात्मनाकाश-

स्यैकत्वात् । अथवा जीवो दहर इति प्राप्तम्; ब्रह्मपुरशब्दात् (ब्र० सू० १ ।३।१४

शा० भा० ) । यथा च - तत्र - आधेयत्वात् विशेषाच्च पुरं जीवस्य युज्यते । देहो

न ब्रह्मणो युक्तो हेतुद्वयवियोगतः असाधारण्येन हि व्यपदेशा भवन्ति । तद्यथा

क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माप्यकुरः शालिबीजेन व्यपदिश्यते शाल्यकुर

इति, न तु क्षित्यादिभिः तेषां कार्यान्तरेष्वपि साधारण्यात् । ....... जीवभेदधर्माधर्मोपार्जितं

तदित्यसाधारणकारणत्वाज्जीवत्वेन व्यपदिश्यत इति युक्तम् । अपि च ब्रह्मपुरसप्तम्यधि-

करणे स्मर्यते, तेनाधेयेनानेन सम्बद्धव्यम् (तत्रैव भाम० ) ।
 
-
 

 
ब्रह्मभूतः - , ब्रह्मभूत
पुण्यपापरहितो जीवन्मुक्तः । यथा- ब्रह्मभूतं जीवन्मुक्तं ब्रह्मैव

सर्वमित्येव निश्चयवन्तं ब्रह्मभूतमकल्मषं धर्माधर्मादिवर्जितम् (गी० ६।२७ शा०