2023-03-25 06:49:41 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शाङ्करवेदान्तकोशः
अत्र मध्वमते विष्णुरेव परब्रह्म । रामानुजमते शेषशेषिभावाङ्गीकारेण विशेषः ।
परमात्मा शेषी जीवास्तु परमात्मशरीररूपत्वाच्छेषाः इति । मायावादिमते तु सगुणनिर्गुणभेदेन
द्विविधं ब्रह्म । तत्र मायाश्रितः जाग्रदाद्यवस्थात्रयसाक्षी च ईश्वरः सगुणः । मायातीतम्
अवस्थात्रयातीतं च निर्गुणमिति विशेषो ज्ञेयः । ब्रह्मणः तटस्थलक्षणं च
जगज्जन्मस्थितिप्रलयानां प्रत्येकं प्रत्येकमुपादानप्रत्यक्षज्ञानचिकीर्षाकृतिमत्वमिति । तेन
नवलक्षणवत्त्वम् । तदुक्तं ब्रह्मसूत्रकारैः । जन्माद्यस्य यतः (ब्र० सू० १ । १ । २) इति ।
अत्र श्रुतिः प्रमाणम्, यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति
यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद् ब्रह्म (तै० उ० २।१ ।१ ) । इति । ब्रह्मणः
स्वरूपलक्षणं च सच्चिदानन्दात्मकत्वम् इति । अत्र श्रुतिः सत्यं ज्ञानमनन्तं
ब्रह्म (तै० उ० २।१।१ ) इति । निर्गुणं निष्कलं शान्तं निरवद्यं निरञ्जनम् (श्वे०
उ० ६।१९) । इत्यादिश्च (न्या० को०) । बृहदारणाकोपनिषदस्तृतीयाध्याये शाङ्करभाष्ये
भर्तृप्रपञ्चमते ब्रह्म द्विविधं परमपरमिति सूचितम् ।
-
ब्रह्म च क्षत्रं च
सर्वधर्मविधारकम् । यथा - यस्त्वनेवंभूत उक्तसाधनसम्पन्नो
यस्यात्मनो ब्रह्मक्षत्रे सर्वधर्मविधारके अपि मृत्युर्यस्योपसेचनमेवौदनवदत्त्यन्नत्वेऽप्य-
पर्याप्तस्तं प्राकृतबुद्धियथोक्तसाधनरहितः सन्क इत्था इत्थं यथोक्तसाधनवानिवेत्यर्थः
वेद विजानाति यत्र स आत्मेति (का० उ० २।२५ शा० भा० ) । यथा च -
ब्रह्मणश्चिदरूपत्वे मतभेदः । यथा - इत्युक्त्वा तद्विशेषे तु बहुधा कलहं ययुः ।
अचिद्रूपोऽथ चिद्रूपश्चिदचिद्रूप इत्यपि । प्राभाकरास्तार्किकाश्च प्राहुरस्याचिदात्मताम् ।
आकाशवद् द्रव्यमात्मा शब्दवत्तद्गुणश्चितिः (प० द० ६।८७-८८) ।
-
ब्रह्मजज्ञम्
सर्वज्ञः । यथा - ब्रह्मणो हिरण्यगर्भाज्जातो ब्रह्मजः । ब्रह्मजश्चासौ
ज्ञश्चेति ब्रह्मजज्ञः सर्वज्ञो ह्यसौ (का० उ० १।७ शा० भा० ) ।
ब्रह्मजिज्ञासा
ब्रह्मसम्बन्धिनी जिज्ञासा । यथा - ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा
(ब्र० सू० १/१/१ शा० भा०) । यथा च - ब्रह्मणो जिज्ञासेत्युक्ते तत्रानेकार्थत्वाद्
ब्रह्मशब्दस्य संशयः; कस्य ब्रह्मणो जिज्ञासेति ।.... षष्ठसमासपरिग्रहेऽपि नेयं कर्मषष्ठी,
किन्तु शेषलक्षणा, सम्बन्धमात्रं च शेष इति ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मसम्बन्धिनी
जिज्ञासेत्युक्तं भवति (तत्रैव भाम० ) ।
-
ब्रह्मतटस्थलक्षणम्
यथा- तटस्थलक्षणन्तु यावल्लक्ष्यकालमनवस्थितत्वे सहि
यद् व्यावर्तकं तदेव यथा. गन्धवत्त्वं पृथ्वीलक्षणम् । महाप्रलये परमाणुषु उत्पत्तिकाले