2023-03-12 05:01:27 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
-
-
}
तदुक्तं वार्तिककृद्भिः - अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । अज्ञानं तदुपाश्रित्य
ब्रह्म कारणमुच्यते । यथा च ब्रह्मणः शब्दवाच्यत्वम् । निर्धर्मकतया अवेद्यतया
च ब्रह्म आनन्दादिपदलक्ष्यम्, न वाच्यम् प्रवृत्तिनिमित्ताभावादिति । ननु -
अवाच्यशब्देनोच्यते चेत्, वाच्यत्वसिद्धिः, लक्ष्यते चेत्, अवाच्यरूपमुख्यार्थस्याभावात्
कथं लक्षणा ? भावे वा ब्रह्म नावाच्यम्, किन्तु तीरवदवाच्यरूपमुख्यार्थसम्बन्धमात्रमिति
स्यात् । मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटपदमपि पटलक्षकं स्यादिति चेत्, न,
अवाच्यरूपमुख्यार्थाभावेऽपि नञ्समभिव्याहृत-वाच्यशब्देन वाच्यत्वात्यन्ताभावबोधनद्वारा
स्वरूपे लक्षणयैव पर्यवसानात् (अ० सि०) । (१६) ब्रह्मणः सच्चिदानन्दरूपमिति
स्वरूपलक्षणम् । ब्रह्मणः जगज्जन्मस्थितिलयहेतुः इति तटस्थलक्षणम् । ब्रह्म च
निमित्तोपादानहेतुर्जगतः । यथा- तन्तुनाभश्च स्वत एव तन्तून् सृजति बालका
चान्तरेणैव शुक्रं गर्भं धत्ते, पद्मिनी चानपेक्ष्य किञ्चित् प्रस्थानसाधनं सरोऽन्तरात्
सरोऽन्तरं प्रतिष्ठे । एवं चेतनमपि ब्रह्म निरपेक्ष्य बाह्यं साधनं स्वत एव जगत्
स्रक्ष्यति (ब्र० सू० २।१।२५ शा० भा० ) । ब्रह्मणो निमित्तोपादानकारणत्वम् ।
मूलकारणस्य च ब्रह्मणः इति अत्र मूलकारणत्वविशेषेण ब्रह्मणः सर्वोपादानत्वमपि
मूलकारणत्वात्पारम्पर्येणेति दर्शितम् (ब्र० सू० २।३।१३ क० त० परि०) ।
१. वेदः । यथा तस्मादेतद् ब्रह्म नाम रूपमन्नं च भासते (मु० १।१।९) । यथा वा
"तेने ब्रह्म हृदा च आदिकवये" (भाग० १1१19) इत्यादौ । २. तपः । ३. सत्यम् ।
४. तत्त्वम् । ५. हिरण्यगर्भादयो जीवाः । ६. विप्राः । ७. ऋत्विग्विशेषः । यथा
यज्ञस्य हैष भिषक् ब्रह्मा (श्रुतिः) इत्यादौ । ८. विष्कम्भादिषु पञ्चविंशो योगविशेषः
इति मौहूर्तिका आहुः । ९. विषयभोगत्यागः । स चाष्टादशविधः । तदुक्तम्-
दिव्यौदारिककामानां कृतानुमतकारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम्
(सर्व० सं० पृ० ६५ आर्ह०) इति । १०. परब्रह्म (परमात्मा) इति वेदान्तिनो वदन्ति ।
अत्राम्नायते । यद् वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं
यदिदमुपासते (केन० ४) । वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति
परमात्मेति भगवानिति शब्धते (भाग० १/२/११) इति । तस्य नवधा रूपं यथा-
तर्काणामेव षण्णां यत् षड्विधं रूपमैश्वरम् । वैष्णवानामेकरूपं वेदानामेकमेव च ।
पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् । न्यायो निर्वर्णनीयं च यन्मतं शङ्करोऽब्रवीत् ।
नित्यं वैशेषिकास्त्वन्यं वदन्ति च विचक्षणाः । सांख्या वदन्ति तं देवं ज्योतीरूपं सनातनम् ।
मीमांसा सर्वरूपं च वेदान्तः सर्वकारणम् । पातञ्जलोप्यनन्तं वेदाः सत्यस्वरूपकम् ।