This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
ज्ञानानन्दैकरूपमद्वितीयं नित्यं साक्षि च ब्रह्मेति सिद्धम् (अ० सि० ब्रह्मणो ज्ञानत्वा० ) ।

एवमेव ब्रह्मणो निर्गुणत्वनिराकारत्वोपपत्तिरपि अ० सिद्धौ द्रष्टव्या । आनन्दो ब्रह्म ।

यथा - आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते ।

आनन्देन जातानि जीवन्ति आनन्दं प्रयन्त्यभिसंविशन्तीति (तै० उ०३/६) । ९. रसः

ब्रह्म । यथा - रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति (तै० उ० २।७) ।

यथा च सैषानन्दस्य मीमांसा भवति....ते ये शतं बृहस्पतेरानन्दाः । स एकः

प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको

ब्रह्मण आनन्दः (तै० उ० २।८ ) । यथा च श्रुत्यन्तरे च - विज्ञानमानन्दं ब्रह्म (बृ०

उ० ३।९।२८) इति ब्रह्मण्येवानन्दशब्दो दृष्टः । एवमानन्दशब्दस्य बहुकृत्वो

ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते । यद् मन्त्रमयाद्यमुख्यात्मप्रवाह-

पतितत्वादानन्दमयस्याप्यमुख्यमिति नासौ दोषः । आनन्दमयस्य सर्वान्तरत्वात् ।

प्रतिपत्तिसौकयपेिक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदिशेति श्लिष्टतरम्

(ब्र० सू० १ । १ । १२ शा० भा०) । यथा च - ब्रह्मणो निराकारत्वम् - एवं निराकारमपि ।

ननु आदित्यवर्णं तमसः परस्तात् यदापश्यः पश्यते रुक्मवर्णं ऋतं सत्यं परं ब्रह्म पुरुषं

कृष्णपिङ्गलम्, "विश्वतश्चक्षुः" "सहस्रशीर्षा" इत्यादिश्रुतिभिः "पश्य मे पार्थ

रूपाणि" सर्वतः पाणिपादं तत् इत्यादि स्मृतिभिः ब्रह्म, सविग्रहम्, स्रष्टृत्वात्

पालयितृत्वादुपदेष्टृत्वादित्याद्यनुमानैश्च विग्रहसिद्धिरिति चेत्, न, आदित्यवर्णमित्यस्या-

विद्याविलक्षणस्वप्रकाशस्वरूपप्रतिपादनपरतया उपास्यपरतया चोपपत्तेः (अ० सि०

निरा० उप०) । यथा च - ब्रह्मणो निर्गुणत्वम् - कैवल्यश्रुत्या तावदात्मा निर्गुणः । ननु -

बृहन्तोऽस्य धर्मा इति श्रुत्या ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः । नावसाययितुं

शक्यो व्याचक्षाणैश्च सर्वदा । इति स्मृत्या च ब्रह्म धर्मवत् पदार्थत्वादित्याधनुमानेन

च स्वसमानसत्ताकधर्मवत् ब्रह्मेति चेत्, मैवम् न तावच्छ्रुत्या सगुणत्वसिद्धिः

सगुणप्रकरणस्थाया उपास्तिविधिविषयविशेषणसमर्पकत्वेन तत्परत्वाभावात् । न चापूर्वत्वात्

सत्यकामादौ विशेषणे तात्पर्यम् । अपूर्वत्वेऽप्यन्यशेषस्यातत्परत्वदर्शनात् । (अ० सि०

ब्र० नि० उप०) । यथा च - ब्रह्मणोऽभिन्ननिमित्तोपादानत्वोपपत्तिः
:
ननु निर्विशेषं

चेत् ब्रह्म, कथं तदेव निमित्तमुपादानमिति अभिन्ननिमित्तोपादानकत्वं जगतः ?

विकारवत्कारणस्यैवोपादानत्वात्, ब्रह्मणोऽविकारत्वात्, अन्यथा "निर्विकारो हरः

शुद्ध:" इत्यादिश्रुतिविरोधापत्तेरिति चेत्, न, परिणामितयोपादानत्वाभावेऽपि

विवर्ताधिष्ठानतयोपादानत्वसम्भवात् । विवर्ताधिष्ठानत्वं च विवर्तकारणाज्ञानविषयत्वमेव
 
-
 
३१२
 
.....