This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
३११
 
G
 
-
 
-
 
च यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यप्रयन्त्यभिसंविशन्ति (तै०

३-१) इत्यादिश्रुतिर्मानम् (वे० प० ७ १०) । ४. ब्रह्मणो रूपद्वयम् - यथा - द्वे वाव

ब्रह्मणो रूपं मूर्तं चामूर्तं च मर्त्यं चामर्त्यं च स्थितं च यच्च सच्चासच्च (बृ० उ०

२।३।१ ) । ५. (क) कार्यब्रह्म- यथा - यः सर्वज्ञः सामान्यतः सर्ववित् विशेषः ।

यस्य भगवतो ज्ञानमयं तपो धर्मो नायासमयम् तस्माद् ब्रह्मणः पूर्वस्मादेतत्परं कार्यं

ब्रह्म (ब्र० सू० १/१/५ भाम० ) । यथा च - उच्यते तत्पदनिर्दिष्टब्रह्मकार्यत्वं जायत

इत्यनेनोक्तं ब्रह्मादिपदनिर्दिष्टकार्यप्रकृतित्वं तस्मादिति पञ्चम्योक्तम् (तत्रैव वे०. क०

त० प०) । (ख) ब्रह्मा । यथा- उच्छिन्नकाम्यकर्मबन्धनः परब्रह्मभावी ब्रह्मा

विद्याहेतोर्ब्रह्मेत्यभिधीयते । दृष्टश्च लोके भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगः (बृ० उ०

१।४।१०) ।६. त्रैलोक्यशरीरवैश्वानरः । यथा - अथापि स्याद्यदुक्तं निर्विकल्पमेकलिङ्गमेव

ब्रह्म नास्य स्वतः स्थानतो वोभयलिङ्गत्वमस्तीति । तन्नोपपद्यते, कस्मात् ? भेदात् । भिन्ना

हि प्रतिविद्यं ब्रह्मण आकारा उपशिष्यन्ते । चतुष्पाद् ब्रह्म षोडशकलं ब्रह्म वामनीत्वा-

दिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेत्येवं जातीयकाः (ब्र० सू० ३ । २ । १२

शा० भा० ) । ७. वेदः । यथा - कर्म ब्रह्मोद्भवं ब्रह्म वेदः स उद्भवः कारणं यस्य

तत् कर्म ब्रह्मोद्भवं विद्धि जानीहि (गी० ३।१५ शा० भा०) । यथा च - कर्म ब्रह्मोन्द्रवं

वेदोद्भवम् वेद एव धर्मे प्रमाणं न तु पाखण्डादिप्रणीतागमः ब्रह्म वेदोऽपि

अक्षरसमुद्भवम् (तत्रैव नी० क० ) । यथा च - ब्रह्म वेदः स एव उद्भवः प्रमाणं

यस्य तत्तथा (तत्रैव म० सू०) । यथा च तच्च यजमानादिव्यापाररूपं कर्म ब्रह्मोद्भवं

विद्धि ब्रह्म वेदस्तस्मात् प्रवृत्तं जानीहि (तत्रैव श्रीधरी) । ८. ब्रह्मणो नित्यत्वम् । यथा

च- वंशीविभूषितकरान्नवनीरदाभात् । पीताम्बरादरुणविम्बफलाधरोष्ठात् । पूर्णेन्दु-

सुन्दरमुखादरविन्दनेत्रात् कृष्णात्परं किमपि तत्त्वमहं न जाने । ननु निर्विशेषं चेत्

ब्रह्म तर्हि ब्रह्मैवैकं ज्ञानात्मकमानन्दात्मकमद्वितीयं नित्यं साक्षि चेति नोपपद्यते ।

तथाहि - तत्र तावत् ज्ञानत्वं किं जातिविशेषो वा, साक्षाद्व्यवहारजनकत्वं वा,

जडविरोधित्वं वा, जडान्यत्वं वा, अज्ञानविरोधित्वं वा, अर्थप्रकाशात्मकत्वं वा,

पराङ्गीकृतं वा । .... इति चेत्, न अर्थप्रकाशत्वमेव ज्ञानत्वम् । मुक्तावर्थाभावेऽपि

तत्संसृष्टप्रकाशत्वस्य कदाचिदर्थसम्बन्धेनाप्यनपायात् । अत एव अर्थप्रकाशरूपत्वं

ज्ञानत्वं ब्रह्मणः कथम् । अन्यार्थाभावतो मोक्षे स्वेन स्वस्याप्यवेदनात् । इति निरस्तम् ।

.....ज्ञानानन्दयोरभेदेऽपि कल्पितजातिभेदनिबन्धनप्रवृत्तिकतया पदद्वयप्रयोगस्य

व्यावृतिभेदेन साफल्यात् । एतेन विषयानुल्लेखिज्ञानमेवानन्द इत्यपि युक्तम् ।...तस्मात्
 
-
 
-