This page has been fully proofread once and needs a second look.

३१०
 
शाङ्करवेदान्तकोशः
 
(सं० शा० १ ।५२१ सु० टी०) यथा च - न च ब्रह्मपदस्येषदपि भेदमादाय वृत्तिसङ्कोचो

युक्तो भूमलक्षणवाचो सर्वभेदरहितं ब्रह्मभूमेति प्रतिष्ठापितत्त्वात्तेन विरोधापत्तेरिति

सूचयति भूमानमिति । तथा च श्रुतिर्भूमलक्षणपरा पठ्यते यत्र नान्यत् पश्यति नान्यत्

शृणोति नान्यत्र विजानाति स भूमा - छा० उ० ७।२४।१ - इति सर्वभेदरहितमविषयभूतं

ब्रह्म (सं० शा० १ । ५२१ अ० टी०) । (ख) यथा च - बृहत्वात् ब्रह्मेति व्युत्पत्तिबलेनास्ति

किमपि महद्वस्त्वित्यविशेषेण प्रतीयते (तै० उ० ब्र० व० १ अनु० १ शा० भा० ) ।

बृह्-बृहि वृद्धौ इति धातोर्ब्रह्मेति शब्दो निष्पन्नो बृद्धौ महत्त्वे वर्तते । तच्च महत्त्वं

देशतः कालतो वस्तुतश्चानवच्छिन्नत्वं सङ्कोचकमानान्तराभावान्निरतिशयमहत्त्वसम्पन्ने

धर्मिणि पर्यवस्यति (तै० उ० १/१ शा० भा० श० न० टी०) । (ग) महत्तमम् ( ब्र०

सू० १ १/४ भाम०) (घ) बृहत्त्वाद् बृंहणत्त्वाद् वात्मैव ब्रह्मेति गीयते ( ब्र० सू०

अध्यासभाष्ये भाम०) । (ङ) बृहत्वाद् बृंहणत्वादात्मैव ब्रह्मेति ( ब्र० सू० अध्यास ०

भाम०) । बृंहणत्वाद् देहादीनां परिणमयितृत्वात् (क० त० प०) । (च) बृहत्वात्

सर्वात्मत्वाच्च ब्रह्म, एतत्सर्वम् (बृ० उ० ५ । ३ । १) । २. (क) ब्रह्मणो लक्षणम् ।

यथा - अवेद्योऽप्यपरोक्षोऽतः स्वप्रकाशो भवत्ययम् । सत्यं ज्ञानमनन्तं चेत्यस्ती

ब्रह्मलक्षणम् (प० द० ३।२८) । (ख) ईश्वरः । यथा च सत्यज्ञानमनन्तं यद् ब्रह्म

तद्वस्तु तस्य तत् । ईश्वरत्वं च जीवत्वमुपाधिद्वयकल्पितम् (प० द० ३।३७)।

(ग) चतुर्मुख: ब्रह्मा । यथा च - चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु । चैतन्यमेकं ब्रह्मातः

प्रज्ञानं ब्रह्म मय्यपि (प० द० ५१२) । स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः ।

अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् (तत्रैव ४) । (घ) ब्रह्म सोपाधिकं निरुपाधिकं

च। यथा- उच्यते- द्विरूपं हि ब्रह्मावगम्यते, नामरूपविकारभेदोपाधिविशिष्टं

तद्विपरीतं च सर्वोपाधिविवर्जितम् (ब्र० सू० १ । १ /११ शा० भा०) । (ङ) सर्वोपाधि-

रहितशुद्धब्रह्मवाचिनः शब्दाः यथा - नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्ध-

बुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः (ब्र० सू० १/१/४ शा० भा०) ।

निधर्मिण्यपि ब्रह्मणि केचन आनन्दविषयानुभवनित्यत्वादयो धर्माः भवति । एते धर्मा

अपृथक्त्वेऽपि पृथगिव अवभासन्ते । यथा- विषयिणस्तधर्माणां चेत्यध्यास-

भाष्यावयवं व्याचक्षाणैः पञ्चपादिकाकृद्भिः - ननु विषयिणश्चिदेकरसस्य कुतो धर्मा

ये विषयेऽध्यस्येरन् इत्याक्षिप्य समाहितम् - आनन्दो विषयानुभवो नित्यत्वं चेति

सन्ति धर्माः । अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्त इति (त० प्र० स्वप्र० प्र०

न० प्र० टी०) । ३. ब्रह्मणो लक्षणे मानम्, यथा- ब्रह्मणो जगज्जन्मादिकारणत्वे
 
-
 
-
 
-