This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
नन्वेतैर्बुद्धेरन्यत्वेन नात्मा ज्ञातो नापि तस्मिन् बुद्धिरूपसंहता । अत एवैतान् प्रकृत्योक्तं
वायवीये - बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः इति । बौद्धा बुद्धौ लीनाः
दशसहस्राणि मन्वन्तराणीत्यनुषङ्गात् (गी० ४।२७ नी० क० ) ।
 

 
(नास्तिक:) वेदो न प्रमाणमिति यत्किञ्चिद्वेदविशेष्यकानाहार्य-
निश्चयवान् (मू० म० १ ) । यथा - सुगतादिबौद्धः । अत्र व्युत्पत्तिः । बौद्धं बुद्ध-
प्रोक्तशास्त्रं वेत्त्यधीते वा बौद्धः इति । अत्र व्याकरणं तदधीते वेत्ति वा (अणू) इति ।
तत्र बौद्धाश्चतुर्विधाः । १. माध्यमिकाः, २. योगाचाराः, ३. सौत्रान्तिकाः, ४.
वैभाषिकाश्च इति । ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति ।
चतुर्विधभावना च १ . सर्वं क्षणिकं क्षणिकमिति । २. दुःखं दुःखमिति,
३. बाह्यार्थानुमेयत्वम्, ४. बाह्यार्थप्रत्यक्षत्वमिति वादानातिष्ठन्ते (सर्व० सं० बौद्ध०) ।
तत्र माध्यमिकादीनां संक्षेपतो मतमुपन्यस्यते । तत्त्वचतुष्टये भगवतोपदिष्टे
१. माध्यमिकास्तावत् प्रज्ञा इत्थमचीकथन् । भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधान-
मुखेन स्थायित्वानुकूलवेदनीयत्वानुगतसर्वसत्यत्वभ्रमव्यावर्तनेन सर्वशून्यतायामेव
पर्यवसानम् । अतस्तत्त्वं सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव । दृष्टा
व्यवहारश्च स्वप्नव्यवहारवत् संवृत्त्या सङ्गच्छते । अत एवोक्तं परिव्राट्कामुकशुनामेकस्यां
प्रमदायां नौः कामिनी कुणपः भक्ष्य इति तिस्रो विकल्पनाः इति । २. केषाञ्चित्
बौद्धविशेषाणां योगाचार इति संज्ञा । गुरुभक्तभावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं
चाङ्गीकृत्य आन्तरस्य शून्यत्वं कथमिति - पर्यनुयोगस्य करणादेतेषां योगाचारप्रथा ।
३. सौत्रान्तिका इत्थं मन्यन्ते । बाह्यमर्थजातमस्त्येव । तच्चानुमीयते । यथा - पुष्ट्या
भोजनमनुमीयते यथा च भाषया देशः यथा वा सम्भ्रमेण स्नेहः तथा ज्ञानकारणेन
ज्ञेयमनुमेयमिति । ४. केचन बौद्धाः (वैभाषिकाः) बाह्येषु गन्धादिषु आन्तरेषु च
रूपादिषु स्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्वं शून्यमिति प्राथमिकान्
माध्यमिकान् विनेयानचीकथद्-भगवान् । द्वितीयांस्तु योगाचारान् विज्ञानमात्रग्रह-
निष्टान् विज्ञानमेवैकं सत् इत्यचीकथत् । तृतीयान् सौत्रान्तिकान् उभयं सत्यमित्या-
स्थितान् विज्ञेयमनुमेयमित्यचीकथत् । सेयं विरूद्धा भगवतो भाषा इति वर्णयन्तो बौद्धा
वैभाषिकाख्ययाख्याताः (सर्व०) (न्या० को०) ।
 
-
 
U
 
ब्रह्म- १ (क) व्यापकं सर्वातिशायि भूम ईश्वर अत्मा चेत्यादि । यथा-
ब्रह्मपदं हि बृहिधातोर्व्युत्पन्नं भूमानमेव यत्र नान्यत्पश्यति (छा० उ०७।२४।१शा०
भा०) इत्यादिना लक्षितं वक्तुं न तु यद् रूपं तन्मर्त्यमित्यादिना लक्षितं परिच्छिन्नमित्यर्थः
 
-