This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
प्रत्यक्षप्रमात्मिकैव । अनित्या तु जीवस्य । अनित्या द्विविधा-स्मृतिः, अनुभवश्च । तौ

च प्रत्येकं द्विविधौ यथार्थोऽयथार्थेश्चेति । अनुभवश्च चतुर्विधः प्रत्यक्षम्, अनुमितिः,

उपमितिः, शाब्दबेधश्च । तत्र यथार्थानुभवः प्रमा इत्युच्यते । अयथार्थानुभवस्तु

अप्रमा इति, भ्रम इति चोच्यते । वेदान्तिमते बुद्धिः सात्त्विकराजसतामसभेदेन त्रिविधा,

तत्र सात्त्विकी यथा - प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च

या वेत्ति बुद्धिः स पार्थ सात्त्विकी (गी० १८।३०) । यया धर्ममधर्मं च कार्यं

चाकार्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी । (तत्रैव १८।३१ ) ।

अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान् विपरीताँश्च बुद्धिः सा पार्थ तामसी

(तत्रैव १८ । ३२) ।
 
३०८
 

 
बुद्धियोगः- , बुद्धियोग
सम्यग्दर्शनं ज्ञानयोगो वा । यथा- बुद्धियोगं बुद्धिः सम्यग्दर्शनं

मत्तत्त्वविषयं तेन योगो बुद्धियोगस्तं बुद्धियोगम् (गी० १०/१० शा० भा०) । यथा

च- बुद्धियोगं ज्ञानरूपं योगं समाधिम् (तत्रैव नी० क० ) । यथा च - बुद्धियोगं

महत्तत्त्वविषयं सम्यग्दर्शनम् (तत्रैव् म० सू० ) । यथा च - तं सम्यग्ज्ञान-

लक्षणमविकम्पबुद्धियोगं ददामि (तत्रैव भाष्यो० ) ।
 
-
 
-
 

 
बोधः - , बोध
ज्ञानम्, जागरितावस्था च, सम्यग्ज्ञानं च । यथा च - बोधव्यमिति

च यथाभूतदर्शनमुच्यते (गी० ४।१८ शा० भा०) । यथा च - बोधशब्दस्य सम्यग्ज्ञाने

प्रसिद्धत्वात् कर्माकर्मविकर्मणां स्वरूपमस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षि-

तत्त्वादपि कूटस्थं ब्रह्ममात्राभिप्रेतमित्याह - बोधव्यमिति चेति (तत्रैव आ० गि०) ।
 
-
 

 
बोधस्वरूपम् - , बोधस्वरूपम्
प्रत्यगात्मोपलम्भः सम्यग्ज्ञानं च । यथा- नैष्कर्म्यसिद्धिकारैर्हि-

प्रतीचो बोधत्वमात्मत्वं च द्वे निर्निमित्ते स्वाभाविके उक्ते । तथा बुद्धेरपि ते तन्निमित्ते

तेन सह परस्पराध्यासनिर्व्यूढ़े शबले उक्ते । तथा ते बुद्धिधर्मो बुद्धिपरिणामात्मके

व्यावहारिके उक्ते । एवं तात्त्विकाध्यासिकपारिणामिकभेदेन त्रिधा बोधात्मत्वे उक्ते

(सं० शा० १/१९० सु० टी० पृ० १८२-८३) । अस्यार्थः - चिदात्मनो निर्विकार-

नित्यबोधः सर्वान्तरत्वं च क्रमेण तत्राध्यस्ताया बुद्धेर्बोद्धृत्वात्मत्वयोर्हेतुः स्वचिदाध्यास-

व्याप्त्या तत्र तद्व्यवहारप्रवृत्तिनिमित्तं यत् एवं तेन हेतुना ताभ्यामागमापायि-

बुद्धिगताभ्यां बोधात्मत्वाभ्यां तत्कारणरूपकूटस्थबोधः प्रत्यगात्मोपलक्ष्यत इति (सं०

शा० १/१९० अ० टी०) ।
 
-
 

 
बौद्धः, बौद्ध
१ . बुद्ध्या प्रकल्पितोऽर्थः बौद्धोऽर्थः ।२. शाक्यमुनिबुद्धसम्प्रदायानुयायी

च । यथा- एतेषामपि बुद्धौ बोधव्याभावात् पूर्ववल्लीनायां समाधिबुद्धिरस्ति ।