This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
३०७
 
इति । बुद्धेः पञ्चगुणा यथा - इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता । संशयः

प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः । (महा० भा० मोक्षधर्मे) इति (न्या० को०) ।
 
-
 

२ – सम्यग् ज्ञानम् । यथा च अतो बुद्धौ योगरूपायां वा निमित्तकं

शरणं रक्षितारमाश्रयं वा ईश्वरम् अन्विच्छ प्रार्थयस्व (गी० २।४९ शा० भा० ) ।

यथा च - बुद्धौ परमात्मबुद्धौ सर्वानर्थनिवर्तकायां शरणं प्रतिबन्धपापक्षयेण रक्षकं

निष्कामकर्मयोगम् (तत्रैव म० सू०) इत्यद्वैत-वेदान्तिनः । यथा च - १. धर्मपत्नीभेद

इति पौराणिका वदन्ति (भा० आ० अ० ६६ ) । २. (गुण:) (क) बुद्धिस्त्वसामान्यवती

(प्र० प्र०) (त० कौ० १ पृ० ६) । सा चात्ममात्रवृत्तिः । न त्वन्तःकरणवृत्तिः

अव्याप्यवृत्तिः मनोमात्रगम्या च । लक्षणं च बुद्धयादिपदवाच्यत्वम् ।

अनुभवसिद्धज्ञानत्वजातिरेव वा (गौ० वृ० १/१/१५) अथवा जानामि

इत्यनुव्यवसायगम्यज्ञानत्वम् (त० दी० १ पृ० १४) (सि० च० १ पृ० १६) अथवा

सम्बन्धावच्छिन्नप्रकारतानिरूपितप्रकारितासमानाधिकरणगुणत्वव्याप्यजातिमत्त्वम् ( ल०

व०) बुद्धिविशेषाः केचिदुच्यन्ते । सन्निकृष्टे वस्तुनि तावद् अयमिति बुद्धिरुत्पद्यते ।

विप्रकृष्टे वस्तुनि एष' इति बुद्धिः । क्रियायां स्वतन्त्रोऽयमिति बुद्धिमपेक्ष्य त्वया

इति कर्तृत्वोपरक्ता बुद्धिः । करणव्यापारविषयत्वबुद्धिमपेक्ष्य कृतमिति कर्मबुद्धिः । अयं

भुजिक्रियायां कर्ता प्रयोजकश्चायमिति बुद्धिमपेक्ष्य भोजय इति बुद्धिः ।

नियोज्यनियोक्तृव्यापारस्य विषयोऽयमिति बुद्ध्यपेक्षमेनमिति ज्ञानम् । एवमन्यदपि

बुद्ध्यपेक्षमूहनीयम् (वै० उ० ८।२।१ पृ० ३६८-३६९) । (ख) आत्माश्रयः प्रकाशः

(प० च० पृ० ३०) । (ग) आत्मगुणत्वे सत्यर्थप्रकाश: (त० प्र०) (त० भा०) (त०

कौ०) (ता० २० श्लो० २९) । (च) सर्वव्यवहारहेतुर्ज्ञानम् (त० सं०) । यथा भोगः

(वात्स्या० १।१।९) ।
 

सांख्यास्तु सत्त्वरजस्तमोगुणात्मिकाया अनादिपरिणामिनित्यव्यापिप्रकृतेर्जडाया

आद्यः परिणामोऽन्तःकरणरूपो महत्तत्वोपयोगी बुद्धि: (कु० १) (वै० उ० ८1१1१)

(सि० च० पृ० १९) । अध्यवसायो वा बुद्धिः इत्याहु: (सांख्य सू० २।१३) ।

मायावादिनस्तु निश्चयात्मकवृत्तियुतमन्तःकरणं बुद्धिः इत्याहुः । अत्रोच्यते निश्चयात्मा

निराकारा बुद्धिरित्यभिधीयते इति वासिष्ठे (सांख्य भा० १ । ६४)।मनोबुद्धिरहङ्कारश्चित्तं

करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया अमी इति (वे० सा०) न्यायमते

बुद्धिर्द्विविधा - नित्या अनित्या च । तत्र नित्या परमात्मनः । सा च साक्षात्काराभिधा ।