This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
तद्भवतीत्यर्थः (सं० शा० ३।२७७ अ० टी० ) । यथा च - शुद्धचिद्बिम्ब-

मित्याहुरित्यर्थः (तत्रैव ३।२७८ सु० टी०) । यथा च - अनन्वितामुपाधितत्स्थाभासतद-

विविक्ताकारेभ्यो विविक्तां तां चिदमिह त्वमर्थे बिम्बमाहुरध्यात्मतत्त्वविद इति योज्यम्

(तत्रैव ३।२७८ अ० टी०) । यथा च - चित्रबिम्बकेऽपि भागमाभासांशं विविक्तत्वं

मृषेत्यवेहीति योजना बिम्बं पुनरशेषमेव सत्यमशेषं सत्यमेवेति वा योजना (तत्रैव

३।२७८ अ० टी०) ।
 

 
बुद्धः - , बुद्ध
१. ज्ञाता । २. वेदतत्कर्मणोर्निन्दाकर्ता भगवतोऽवतारविशेषः । स

च विष्णोश्चतुर्विंशत्यवतारमध्य एकविंशोऽवतारः । यथोक्तम्- ततः कालौ सम्प्रवृत्ते

सम्मोहाय सुरद्विषाम् । बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति (श्रीमद्भाग०

१ । ३ । २४) । इति ।
 
-
 

 
बुद्धत्वम् - , बुद्धत्व
ज्ञानत्वं चैतन्यं वा । यथा - बुद्धत्वमजडत्वम् (गी० १ आ०

गि० टी०) ।
 

 
बुद्धिः - , बुद्धि
१. अन्तःकरणवृत्तिः । यथा तदुक्तं विवरणे अन्तःकरणवत्तौ

ज्ञानत्वोपचारादिति .....वृत्तिरूपज्ञानस्य मनोधर्मत्वे च - कामः संकल्पो विचिकित्सा

श्रद्धा श्रद्धाधृतिरधृतिर्धीभरित्येतत्सर्वं मन एव (बृ० आ० उ० १/५/३)

श्रुतिर्मानम् । धीशब्देन वृत्तिरूपज्ञानाभिधानात् (वे० प० १ प०) । यथा च

अध्यवसायलक्षणा बुद्धिः (गी० १२/१४ शा० भा० ) । यथा च - बुद्धिरध्यवसायः

(तत्रैव नी० क०) । यथा च सङ्कल्पविकल्पात्मकं मनोऽध्यवसायलक्षणा बुद्धिश्च

(तत्रैव भाष्यो०) ।
 
-
 
-
 
-
 
-
 

यथा च – बुद्धेर्नाशः कार्याकार्यविषयविवेकयोग्यान्तःकरणस्य बुद्धेर्नाश उच्यते

(गी० २।६३ शा० भा०) यथा च - तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद्विधा । मनो

विमर्शरूपं स्याद्बुद्धिः स्यान्निश्चयात्मिका (प० द० १ । २०) । यथा च - बुद्धि-

रन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम् (गी० १०४ शा० भा०) । यथा च-

बुद्धिरन्तःकरणस्य सूक्ष्मार्थविवेकसामर्थ्यम् (तत्रैव म० सू०) । बन्धं मोक्षं च या वेत्ति

बुद्धिः सा पार्थ सात्त्विकी । राजसी यथा - यया धर्ममधर्मच कार्यं चाकार्यमेव च ।

अयथावप्रजानाति बुद्धिः सा पार्थ राजसी । तामसी यथा - अधर्मं धर्ममिति या मन्यते

तमसावृता। सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी । (गी० १८/३०-३२)।