This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
-
 
बन्धनम् -
बन्धनम्, बन्धन
अविद्यया आत्मनः परिच्छिन्नत्वम् । यथा - यदल्पं परिच्छिन्नमात्मनः

प्रमातृत्वादिरूपं तद्बन्धनम् । बन्धोऽविद्याकृतः । अनेन बन्धनेन स्वभावतः

स्वच्छचैतन्यमूर्त्तिरपि प्रत्यगात्मा बद्धो निगडितः (सं० शा० ५० अ० का० टी०) ।
 

 
बन्धमोक्षी - षौ, बन्धमोक्ष
अविद्योपाधानम्, तथा अविद्यानाशः । यथा - असङ्गायाश्चितेर्बन्ध-

मोक्षौ भेदाग्रहान्मतौ । बन्धमुक्तिव्यवस्यार्थं पूर्वेषामिव चिद्भिदा (प० द० ६।१००) ।

 
बलम्, बल
सहायकसम्पत्त्यादि । यथा - बलं सहायकसम्पत्तिः (गी० १ आ०

गि० टी०) ।
 
-
 
३०५
 

 
बहिरङ्गसाधनम् - , बहिरङ्गसाधन
आत्मज्ञानार्थं श्रवणादौ अन्तःकरणशुद्धिद्वारा प्रवर्तनार्थं

यज्ञादि । यथा - विविदिषन्ति यज्ञेन (बृ० उ० ४।४।२२) इत्यादिश्रुतिभिरिच्छाद्वारा

श्रवणादौ प्रवर्तकत्वाद् बहिरङ्गम् (सं० शा० ३।३३० सु० टी०) । यज्ञादिकं

बुद्धिशुद्ध्यादि-फलजनकत्वेन कारकत्वाद् बहिरङ्गम् (तत्रैव ३ । ३३१ सु० टी०) । यथा
 
-
 

च - तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन

(बृ० उ०४।४।२२) । इत्यत्र यज्ञदानादिकर्मजातं विविदिषोदयाय श्रुतं तत्सर्वं

बहिरङ्गसाधनमेवेत्यवगच्छ (सं० शा० ३।३३० अ० टी०) ।
 

 
बाध:
 
, बाध
१. अभावः (वाक्य० ४ पृ० १९) । २. हेत्वाभासविशेषः । स च

प्राचीनमते साध्याभाववत्त्वप्रमाविषयपक्षकत्वम् । अथवा प्रमितसाध्याभाववत्पक्षकत्वम् ।

तथा च साध्याभावप्रमैव दोषः । एतादृशबाधज्ञानस्य प्रमात्वविषयकता नियमेन

प्रतिबन्धकता ध्रौव्यादिति भावः । तथा चैतन्मते प्रमात्वविषयकत्वस्यैव प्रतिबन्धकतायां

प्रयोजकत्त्वाद्धेत्त्वाभासलक्षणस्य समन्वयो भवति (ग० बांध० पृ०१) । (न्या० को०)
 

 
-
 

 
बाल्यम् - , बाल्य
यथा पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृ० उ० ३/५/१) ।

बालस्य भावः कर्म वा बाल्यम्.... ज्ञानाध्ययनधार्मिकत्त्वादिभिरात्मानम् अविख्यापयन्

दम्भदर्पादिरहितो भवेत् । यथा बालोऽप्ररूढेन्द्रियतया न परेषामात्मानमाविष्कर्तुमीहते

तद्वत् (ब्र० सू० ३/४/५० शा० भा० ) ।
 
-
 

 
बिम्बम् - , बिम्ब
ग्रीवास्थं मुखं बिम्बं दर्पणस्थं प्रतिबिम्बं तथैव शुद्धं चैतन्यं बिम्बम् ।

एतस्य प्रतिबिम्बं जगत् । यथा- आत्माभासा विविक्ता च चिठप्रतिबिम्बः स ईश्वरः,

शुद्धं चैतन्यमेव च बिम्बमित्यर्थः (सं० शा०३ । २७७ सु० टी०) । यथा च - "आभास

हेतुभूता शुद्धचिदेव बिम्बमुक्तम् । प्रतिबिम्बापेक्षया बिम्बमुच्यत ईश्वरः । वाचकपदलक्ष्यं
 
-