2023-03-12 05:01:25 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
-
बन्धनम् - अविद्यया आत्मनः परिच्छिन्नत्वम् । यथा - यदल्पं परिच्छिन्नमात्मनः
प्रमातृत्वादिरूपं तद्बन्धनम् । बन्धोऽविद्याकृतः । अनेन बन्धनेन स्वभावतः
स्वच्छचैतन्यमूर्त्तिरपि प्रत्यगात्मा बद्धो निगडितः (सं० शा० ५० अ० का० टी०) ।
बन्धमोक्षी - अविद्योपाधानम्, तथा अविद्यानाशः । यथा - असङ्गायाश्चितेर्बन्ध-
मोक्षौ भेदाग्रहान्मतौ । बन्धमुक्तिव्यवस्यार्थं पूर्वेषामिव चिद्भिदा (प० द० ६।१००) ।
बलम् – सहायकसम्पत्त्यादि । यथा - बलं सहायकसम्पत्तिः (गी० १ आ०
गि० टी०) ।
-
३०५
बहिरङ्गसाधनम् - आत्मज्ञानार्थं श्रवणादौ अन्तःकरणशुद्धिद्वारा प्रवर्तनार्थं
यज्ञादि । यथा - विविदिषन्ति यज्ञेन (बृ० उ० ४।४।२२) इत्यादिश्रुतिभिरिच्छाद्वारा
श्रवणादौ प्रवर्तकत्वाद् बहिरङ्गम् (सं० शा० ३।३३० सु० टी०) । यज्ञादिकं
बुद्धिशुद्ध्यादि-फलजनकत्वेन कारकत्वाद् बहिरङ्गम् (तत्रैव ३ । ३३१ सु० टी०) । यथा
-
च - तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन
(बृ० उ०४।४।२२) । इत्यत्र यज्ञदानादिकर्मजातं विविदिषोदयाय श्रुतं तत्सर्वं
बहिरङ्गसाधनमेवेत्यवगच्छ (सं० शा० ३।३३० अ० टी०) ।
बाध:
१. अभावः (वाक्य० ४ पृ० १९) । २. हेत्वाभासविशेषः । स च
प्राचीनमते साध्याभाववत्त्वप्रमाविषयपक्षकत्वम् । अथवा प्रमितसाध्याभाववत्पक्षकत्वम् ।
तथा च साध्याभावप्रमैव दोषः । एतादृशबाधज्ञानस्य प्रमात्वविषयकता नियमेन
प्रतिबन्धकता ध्रौव्यादिति भावः । तथा चैतन्मते प्रमात्वविषयकत्वस्यैव प्रतिबन्धकतायां
प्रयोजकत्त्वाद्धेत्त्वाभासलक्षणस्य समन्वयो भवति (ग० बांध० पृ०१) । (न्या० को०)
—
-
बाल्यम् - यथा पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृ० उ० ३/५/१) ।
बालस्य भावः कर्म वा बाल्यम्.... ज्ञानाध्ययनधार्मिकत्त्वादिभिरात्मानम् अविख्यापयन्
दम्भदर्पादिरहितो भवेत् । यथा बालोऽप्ररूढेन्द्रियतया न परेषामात्मानमाविष्कर्तुमीहते
तद्वत् (ब्र० सू० ३/४/५० शा० भा० ) ।
-
बिम्बम् - ग्रीवास्थं मुखं बिम्बं दर्पणस्थं प्रतिबिम्बं तथैव शुद्धं चैतन्यं बिम्बम् ।
एतस्य प्रतिबिम्बं जगत् । यथा- आत्माभासा विविक्ता च चिठप्रतिबिम्बः स ईश्वरः,
शुद्धं चैतन्यमेव च बिम्बमित्यर्थः (सं० शा०३ । २७७ सु० टी०) । यथा च - "आभास
हेतुभूता शुद्धचिदेव बिम्बमुक्तम् । प्रतिबिम्बापेक्षया बिम्बमुच्यत ईश्वरः । वाचकपदलक्ष्यं